पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२२३

पुटमेतत् सुपुष्टितम्
( २२१ )
दशमः सर्गः ।

  ताभ्यस्तथाविधान्स्वप्नाञ्छ्रुत्वा प्रीतो हि[१] पार्थिवः ।
  मेने प[२]रार्ध्यमात्मानं गुरुत्वेन जगद्गुरोः ॥ ६४ ॥

 ताभ्य इति ॥ पार्थिवो दशरथस्ताभ्यः पत्नीभ्यः ॥ “आख्यातोपयोगे” इत्यपादानत्वात्पञ्चमी ॥ तथाविधानुक्तप्रकारान्स्वप्नाञ्छ्रुत्वा प्रीतः सन् । आत्मानं जगद्गुरोर्विष्णोरपि गुरुत्वेन पितृत्वेन हेतुना परार्ध्यं सर्वोत्कृष्टं मेने हि ॥

  विभक्तात्मा वि[३]भुस्तासामेकः कुक्षिष्वनेकधा ।
  उवास प्रतिमाचन्द्रः प्रसन्नानामपामिव ॥ ६५ ॥

 विभक्तेति ॥ एक एकरूपो विभुर्विष्णुस्तासां राजपत्नीनां कुक्षिषु गर्भेषु । प्रसन्नानां निर्मलानामपां कुक्षिषु प्रतिमाचन्द्रः प्रतिबिम्बचन्द्र इव । अनेकधा विभक्तात्मा सन् । उवास ॥

  अथा[४]ग्र्यमहिषी राज्ञः प्रसूतिसमये सती ।
  पुत्रं तमोपहं लेभे नक्तं ज्योतिरिवौषधिः ॥ ६६ ॥

 अथेति ॥ अथ राज्ञो दशरथस्य सती पतिव्रता । अग्र्या चासौ महिषी चाग्र्यमहिषी । कौसल्या । प्रसूतिसमये प्रसूतिकाले । ओषधिर्नक्तं रात्रिसमये तमोऽपहन्तीति तमोपहम् ॥ “अपे क्लेशतमसोः” इति डप्रत्ययः ॥ ज्योतिरिव । तमोपहं तमोनाशकरं पुत्रं लेभे प्राप ॥

  राम इत्यभिरामेण वपुषा तस्य चोदितः[५]
  नामधेयं गुरुश्चके जगत्प्रथममङ्गलम् ॥ ६७ ॥

 राम इति ॥ अभिरमतेऽत्रेत्यभिरामं मनोहरम् ॥ अधिकरणार्थे घञ्प्रत्ययः ॥ तेन वपुषा चोदितः प्रेरितो गुरुः पिता दशरथस्तस्य पुत्रस्य जगतां प्रथमं मङ्गलं सुलक्षणं राम इति नामधेयं चक्रे । अभिरामत्वमेव रामशब्दप्रवृत्तिनिमित्तमित्यर्थः ॥

  रघुवंशप्रदीपेन तेनाप्रतिमतेजसा ।
  रक्षागृहगता दीपाः प्रत्यादिष्टा इवाभवन् ॥ ६८ ॥

रघ्विति ॥ रघुवंशस्य प्रदीपेन प्रकाशकेन । अप्रतिमतेजसा तेन रामेण रक्षागृहगताः सूतिकागृहगता दीपाः प्रत्यादिष्टाः प्रतिबद्धा इवाभवन् ॥ महादीपसमीपे नाल्पाः स्फुरन्तीति भावः ॥

  [६]य्यागतेन रामेण माता शातोदरी बभौ ।
  सैकताम्भोजबलिना जाह्नवीव शरत्कृशा ॥ ६९ ।।


  1. अथ.
  2. कृतार्थम्.
  3. प्रभुः.
  4. अग्रमहिषी.
  5. नोदितः.
  6. शय्याम्.