पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२२८

पुटमेतत् सुपुष्टितम्
( २२६ )
रघुवंशे

अप्रधाने दुहादीनामिति वचनात् ॥ नायं बालाधिकार इत्याशङ्क्याह-तेजसां तेजस्विनां वयो बाल्यादि न समीक्ष्यते हि । अप्रयोजकमित्यर्थः ॥ अत्र सर्गे रथोद्धतावृत्तम् । उक्तं च-“रान्नराविह रथोद्धता लगौ” इति ॥

  कृच्छ्रलब्धमपि ल[१]ब्धवर्णभाक्तं दिदेश मुनये सलक्ष्मणम् ।
  अप्यसुप्रणयिनां रघोः कुले न व्यहन्यत कदाचिदर्थिता ॥ २ ॥

 कृच्छ्रलब्धमिति ॥ लब्धा वर्णाः प्रसिद्धयो यैस्ते लब्धवर्णा विचक्षणाः ॥ “लब्धवर्णो विचक्षणः” इत्यमरः ॥ तान्भजत इति लब्धवर्णभाक् । विद्वत्सेवीत्यर्थः। स राजा कृच्छ्रलब्धमपि सलक्ष्मणं तं रामं मुनये दिदेशातिसृष्टवान् ॥ तथाहि । असुप्रणयिनां प्राणार्थिनामप्यर्थिता याच्ञा रघोः कुले कदाचिदपि न व्यहन्यत न विहता । न विफलीकृतेत्यर्थः ॥ यैरर्थिभ्यः प्राणा अपि समर्प्यन्ते तेषां पुत्रादित्यागो न विस्मयावह इति भावः ॥

  यावदादिशति पार्थिवस्तयोर्निर्गमाय पुरमार्गसंस्क्रि[२]याम् ।
  ता[३]वदाशु वि[४]दधे मरुत्सखैः सा[५] सपुष्पजलवर्षिभिर्घनैः ॥ ३ ॥

 यावदिति ॥ पार्थिवः पृथिवीश्वरस्तयो रामलक्ष्मणयोनिर्गमाय निष्क्रमणाय पुरमार्गसंस्क्रियां धूलिसंमार्जनगन्धोदकसेचनपुष्पोपहाररूपसंस्कारं यावदादिशत्याज्ञापयति । तावन्मरुत्सखैर्वायुसखैः । अनेन धूलिसंमार्जनं गम्यते । सपुष्पजलवर्षिभिः पुष्पसहितजलवर्षिभिर्घनैः सा मार्गसंस्क्रियाशु विदधे विहिता ॥ एतेन देवकार्यप्रवृत्तयोर्देवानुकूल्यं सूचितम् ॥

  तौ निदेशकरणोद्यतौ पितुर्धन्विनौ चरणयोर्निपेततुः ।
  भूपतेरपि तयोः प्र[६]वत्स्यतोर्नम्रयोरुपरि बाष्पबिन्दवः ॥ ४ ॥

 ताविति ॥ निदेशकरणोद्यतौ पित्राज्ञाकरणोद्युक्तौ धन्विनौ धनुष्मन्तौ तौ कुमारौ पितुश्चरणयोर्निपेततुः । प्रणतावित्यर्थः । भूपतेरपि बाष्पबिन्दवः प्रवत्स्यतोः प्रवासं करिष्यतोः । अत एव नम्रयोः प्रणतयोः ॥ “नमिकम्पि-” इति रप्रत्ययः ॥ तयोरुपरि निपेतुः पतिताः ॥

  तौ पितुर्नयनजेन वारिणा किंचिदुक्षितशि[७]खण्डकावुभौ ।
  धन्विनौ तमृषिमन्वगच्छतां पौरदृष्टिकृतमार्गतोरणौ ॥ ५ ॥

 ताविति ॥ पितुर्नयनजेन वारिणा किंचिदुक्षितशिखण्डकावीषत्सिक्तचूडौ । “शिखा चूडा शिखण्डः स्यात्” इत्यमरः ॥ “शेषाद्विभाषा” इति क-


  1. मेदिनीपतिः.
  2. सत्क्रियाम्.
  3. तावता.
  4. विहिता.
  5. सान्द्रपुष्प.
  6. प्रयास्यतोः.
  7. शिखण्डिकौ.