पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२२९

पुटमेतत् सुपुष्टितम्
( २२७ )
एकादशः सर्गः ।

प्प्रत्ययः ॥ धन्विनौ तावुभौ । पौरदृष्टिभिः कृतानि मार्गतोरणानि संपाद्यानि कुवलयानि ययोस्तौ तथोक्तौ । संघशो निरीक्ष्यमाणावित्यर्थः । तमृषिमन्वगच्छताम् ॥

  लक्ष्मणानुचरमेव राघवं नेतुमैच्छदृषिरित्यसौ नृपः।
  आशिषं प्रयुयुजे न वाहिनीं सा हि रक्षणविधौ तयोः क्षमा ॥ ६ ॥

 लक्ष्मणेति ॥ ऋषिर्लक्ष्मणानुचरमेव लक्ष्मणमात्रानुचरं तं राघवं नेतुमैच्छदिति हेतोरसौ नृप आशिषं प्रयुयुजे प्रयुक्तवान् । वाहिनीं सेनां न प्रयुयुजे न प्रेषितवान् । हि यस्मात्साशीरेव तयोः कुमारयो रक्षणविधौ क्षमा शक्ता ॥

  मातृवर्गचरणस्पृशौ मुनेस्तौ प्रपद्य पदवीं महौजसः ।
  रेजतुर्गतिव[१]शात्प्रवर्तिनौ भास्करस्य मधुमाधवाविव ॥ ७ ॥

 मातृवर्गेति ॥ मातृवर्गस्य चरणान्स्पृशत इति मातृवर्गचरणस्पृशौ । कृतमातृवर्गनमस्कारावित्यर्थः ॥ “स्पृशोऽनुदके क्विन्” इति क्विन्प्रत्ययः ॥ तौ महौजसो मुनेः पदवीं प्रपद्य । महौजसो भास्करस्य गतिवशान्मेषादिराशिसंक्रान्त्यनुसारात्प्रवर्तिनौ मधुमाधवाविव चैत्रवैशाखाविव रेजतुः ॥ “फणां च सप्तानाम्” इति वैकल्पिकावेत्वाभ्यासलोपौ ॥ “स्याच्चैत्रे चैत्रिको मधुः” इति । “वैशाखे माधवो राधः” इति चामरः ॥

  वीचिलोलभुजयोस्तयोर्गतं शैशवाच्चपलमप्यशोभत ।
  तोयदागम इवोद्ध्यभिद्ययोर्नामधेयसदृशं विचेष्टितम् ॥ ८ ॥

 वीचीति ॥ वीचिलोलभुजयोस्तरंगचञ्चलबाह्वोः ॥ इदं विशेषणं नदोपमानसिद्ध्यर्थं वेदितव्यम् ॥ तयोश्चपलं चञ्चलमपि गतं गतिः शैशवाद्धेतोरशोभत ॥ किमिव । तोयदागमे वर्षासमये । उज्झत्युदकमित्युद्ध्यः । भिनत्ति कूलमिति भिद्यः ॥ “भिद्योद्ध्यौ नदे” इति क्यबन्तौ निपातितौ ॥ उद्ध्यभिद्ययोर्नदविशेषयोर्नामधेयसदृशं नामानुरूपं विचेष्टितमिव उदकोज्झनकूलभेदनरूपव्यापार इव ॥ समयोत्पन्नं चापलमपि शोभत इति भावः ॥

  तौ बलातिबलयोः प्रभावतो विद्ययोः पथि मुनिप्रदिष्टयोः ।
  मम्लतुर्न मणिकुट्टिमोचितौ मातृपार्श्वपरिवर्तिनाविव ॥ ९ ॥

 ताविति ॥ मणिकुट्टिमोचितौ मणिबद्धभूमिसंचारोचितौ तौ मुनिप्रदिष्टयोः कौशिकेनोपदिष्टयोर्बलातिबलयोर्विद्ययोर्बलातिबलाख्ययोर्मन्त्रयोः प्रभावतः सामर्थ्यान्मातृपार्श्वपरिवर्तिनौ मातृसमीपवर्तिनाविव पथि न मम्लतुः । न म्लानावित्यर्थः । अत्र रामायणश्लोकः-- “क्षुत्पिपासे न ते राम भविष्येते नरोत्तम । बलामतिबलां चैव पठतः पथि राघव” इति ॥


  1. वशप्रवर्तिनौ.