पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२३

पुटमेतत् सुपुष्टितम्
( २१ )
प्रथमः सर्गः ।

 संप्रति दैविकापत्प्रतीकारमाह--

  हविरावर्जितं होतस्त्वया विधिवदग्निषु ।
  [१]वृष्टिर्भवति सस्यानामवग्रहविशोषिणाम् ।। ६२ ।।

 हविरिति ॥ हे होतः, त्वया विधिवदग्निष्वावर्जितं प्रक्षिप्तं हविराज्यादिकम्। कर्तृ । अवग्रहो वर्षप्रतिबन्धः ॥ “ अवे ग्रहो वर्षप्रतिबन्धे” इत्यञ्प्रत्ययः ॥ “वृष्टिर्वर्षं तद्विघातेऽवग्राहावहौ समौ” इत्यमरः ॥ तेन विशोषिणां विशुष्यतां सस्यानां वृष्टिर्भवति । वृष्टिरूपेण सस्यान्युपजीवयतीति भावः । अत्र मनु:--"अग्नौ दत्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः” इति।

  पुरुषायुषजीविन्यो निरातङ्का निरीतयः।
  यन्मदीयाः प्रजास्त[२]स्य हेतुस्त्वद्ब्रह्मवर्चसम् ॥ ६३ ॥

 पुरुषेति ॥ आयुर्जीवितकालः । पुरुषस्यायुः पुरुषायुषम् । वर्षशतमित्यर्थः ॥ “शतायुर्वै पुरुषः” इति श्रुतेः ॥ “अचतुर-”आदिसूत्रेणाच्प्रत्ययान्तो निपातः ॥ मदीयाः प्रजाः । पुरुषायुषं जीवन्तीति पुरुषायुषजीविन्यः । निरातङ्का निर्भयाः॥ “ आतङ्को भयमाशङ्का” इति हलायुधः ॥ निरीतयोऽतिवृष्टयादिरहिता इति यत्तस्य सर्वस्य त्वद्ब्रह्मवर्चसं तव व्रताध्ययनसंपत्तिरेव हेतुः ॥ “व्रताध्ययनसंपत्तिरित्येतद्ब्रह्मवर्चसम्” इति हलायुधः ॥ ब्रह्मणो वर्चो ब्रह्मवर्चसम् ॥ “ब्रह्महस्तिभ्यां वर्चसः” इत्यच्प्रत्ययः॥ “अतिवृष्टिरनावृष्टिर्मूषिकाः शलभाः शुकाः । अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः” इति कामन्दकः ॥

  त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना।
  सानुबन्धाः कथं न स्युः संपदो मे निरापदः॥ ६४ ॥

 त्वयेति ॥ ब्रह्मा योनिः कारणं यस्य तेन ब्रह्मपुत्रेण गुरुणा त्वयैवमुक्तप्रकारेण चिन्त्यमानस्यानुध्यायमानस्य । अत एव निरापदो व्यसनहीनस्य मे संपदः सानुबन्धाः सानुस्यूतयः । अविच्छिन्ना इति यावत् । कथं न स्युः । स्युरेवेत्यर्थः ॥

 संप्रत्यागमनप्रयोजनमाह--

  किंतु वध्वां तवैतस्यामदृष्टसदृशप्रजम् ।
  न मामवति सद्वीपा रत्नसूरपि मेदिनी ॥६५॥

 किंस्विति ॥ किंतु तवैतस्यां वध्वां स्नुषायाम् ॥ “वधूर्जाया स्नुषा चैव” इत्यमरः ॥ अदृष्टा सदृश्यनुरूपा प्रजा येन तं मां सद्वीपापि । रत्नानि सूयत इति



  1. वृष्ट्यै.
  2. तत्र.