पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२३२

पुटमेतत् सुपुष्टितम्
( २३० )
रघुवंशे

  यच्चकार विवरं शिलाघने ता[१]डकोरसि स रामसायकः ।
  अप्रविष्टविषयस्य रक्षसां द्वारतामगमदन्तकस्य तत् ॥ १८ ॥

 यदिति ॥ स रामसायकः शिलावद्घने सान्द्रे ताडकोरसि यद्विवरं रन्ध्रं चकार तद्विवरं रक्षसामप्रविष्टविषयस्य । अप्रविष्टरक्षोदेशस्येत्यर्थः ॥ सापेक्षत्वेऽपि गमकत्वात्समासः ॥ “विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च” इति विश्वः ॥ अन्तकस्य यमस्य द्वारतामगमत् ॥ इयं प्रथमा रक्षोमृतिरिति भावः ॥

  बाणभिन्नहृदया निपेतुषी सा स्वकाननभुवं न केव[२]लाम् ।
  विष्टपत्रयपराजयस्थिरां रावणश्रियमपि व्यकम्पयत् ॥ १९ ॥

 बाणेति ॥ बाणभिन्नहृदया निपेतुषी निपतिता सती ॥ “क्वसुश्च” इति क्वसुप्रत्ययः । “उगितश्च” इति ङीप् ॥ सा केवलामेकाम् ॥ “निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः” इत्यमरः ॥ स्वकाननभुवं न व्यकम्पयत् । किंतु विष्टपत्रयस्य लोकत्रयस्य पराजयेन स्थिरां रावणश्रियमपि व्यकम्पयत् ॥ ताडकावधश्रवणेन रावणस्यापि भयमुत्पन्नमिति भावः ॥

 अत्र ताडकाया अभिसारिकायाः समाधिरभिधीयते-

  राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी ।
  गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥ २० ॥

 रामेति ॥ सा । निशासु चरतीति निशाचरी राक्षसी। अभिसारिका च । दुःसहेन सोढुमशक्येन । राम एव मन्मथः । अन्यत्राभिरामो मन्मथः । तस्य शरेण हृदय उरसि मनसि च ॥ “हृदयं मनउरसोः” इति विश्वः । ताडिता विद्धाङ्गा गन्धवद्दुर्गन्धि यद्रुधिरमसृक्तदेव चन्दनं तेनोक्षिता लिप्ता । अपरत्र गन्धवती सुगन्धिनी ये रुधिरचन्दने कुङ्कमचन्दने ताभ्यामुक्षिता ॥ “रुधिरं कुङ्कुमासृजोः” इत्युभयत्रापि विश्वः ॥ जीवितेशस्यान्तकस्य प्राणेश्वरस्य च वसतिं जगाम ॥

  नैर्ऋतघ्नमथ मन्त्रवन्मुनेः प्रापदस्त्रमवदानतोषितात् ।
  ज्योतिरिन्धननिपाति भास्करात्सूर्यकान्त इव ता[३]डकान्तकः ॥ २१॥

 नैर्ऋतेति ॥ अथानन्तरं ताडकान्तको रामः । अवदानं पराक्रमः ॥ “पराक्रमोऽवदानं स्यात्” इति भागुरिः ॥ तेन तोषितान्मुनेः । नैर्ऋतान्राक्षसान्हन्तीति नैर्ऋतघ्नम् ॥ “अमनुष्यकर्तृके च” इति टक् ॥ मन्त्रवन्मन्त्रयुक्तमस्त्रम् । सूर्यकान्तो मणिविशेषो भास्करादिन्धनानि निपातयतीतीन्धननिपाति काष्ठदाहकं ज्योतिरिव । प्रापत्प्राप्तवान् ॥


  1. ताटकोरसि.
  2. केवलम्.
  3. ताटकान्तकः.