वामनाश्रमपदं ततः परं पावनं श्रुतमृषेरुपेयिवान् ।
उन्मनाः प्रथमजन्मचेष्टितान्यस्मरन्नपि बभूव राघवः ॥ २२ ॥
वामनेति ॥ ततः परं राघवः । ऋषेः कौशिकादाख्यातुः श्रुतं पावनं शोधनं वामनस्य स्वपूर्वावतारविशेषस्याश्रमपदमुपेयिवानुपगतः सन् ॥ "उपेयिवाननाश्वाननूचानश्च" इति निपातः ॥ प्रथमजन्मचेष्टितानि रामवामनयोरैक्यात्स्मृतियोग्यान्यपि रामस्याज्ञानावतारत्वेन संस्कारदौर्बल्यादस्मरन्नपि । उन्मना उत्सुको बभूव ॥
आससाद मुनिरात्मनस्ततः शिष्यवर्गपरिकल्पितार्हणम् ।
बद्धपल्लवपुटाञ्जलिद्रुमं द[१]र्शनोन्मुखमृगं तपोवनम् ॥ २३ ॥
आससादेति ॥ ततो मुनिः । शिष्यवर्गेण परिकल्पिता सज्जितार्हणा पूजासामग्री यस्मिंस्तत्तथोक्तम् । बद्धाः पल्लवपुटा एवाञ्जलयो यैस्ते तथाभूता द्रुमा यस्मिंस्तत्तथोक्तम् । दर्शनेन मुनिदर्शनेनोन्मुखा मृगा यस्मिंस्तत् । आत्मनस्तपोवनमासमाद ॥ एतेन विशेषणत्रयेणातिथिसत्कारताच्छील्यविनयशान्तयः सूचिताः ॥
तत्र दीक्षितमृषिं ररक्षतुर्विघ्नतो दशरथात्मजौ शरैः ।
लोकमन्धतमसात्क्रमोदितौ रश्मिभिः शशिदिवाकराविव ॥ २४ ॥
तत्रेति ॥ तत्र तपोवने दशरथात्मजौ दीक्षितं दीक्षासंस्कृतमृषिं शरैर्विघ्नतो विघ्नेभ्यः । क्रमेण पर्यायेण रात्रिदिवसयोरुदितौ शशिदिवाकरौ रश्मिभिरन्धतमसाद्गाढध्वान्तात् ॥ "ध्वान्ते गाढेऽन्धतमसम्" इत्यमरः ॥ "अवसमन्धेभ्यस्तमसः" इति समासान्तोऽच्प्रत्ययः ॥ लोकमिव । ररक्षतुः ।रक्षणप्रवृत्तावभूतामित्यर्थः ॥
वीक्ष्य वेदिमथ रक्तबिन्दुभिर्बन्धुजीवपृथुभिः प्रदूषिताम् ।
संभ्रमोऽभवदपोढकर्मणामृत्विजां च्युतविकङ्कतस्रुचाम् ॥ २५ ॥
वीक्ष्येति ॥ अथ बन्धुजीवपृथुभिर्बन्धुजीवकुसुमस्थूलैः ॥ "रक्तकस्तु बन्धूको बन्धुजीवकः" इत्यमरः ॥ रक्तबिन्दुभिः प्रदूषितामुपहतां वेदिं वीक्ष्य । अपोढकर्मणां त्यक्तव्यापाराणाम् । च्युता विकङ्कतस्रुचो येभ्यस्तेषामृत्विजां याजकानां संभ्रमोऽभवत् ॥ विकङ्कतग्रहणं खदिराद्युपलक्षणम् । स्रुगादीनां खदिरादिप्रकृतिकत्वात् । स्रुगादिपात्रस्यैव विकङ्कतप्रकृतिकत्वात् । "विकङ्कतःस्रुचां वृक्षः" इत्यमरः ॥ यद्वा स्रुङ्मात्रस्य विकङ्कतप्रकृतिकत्वमस्तु । उभयत्रापि शास्त्रसंभवात् ॥ यथाह भगवानापस्तम्बः--'खादिरस्रुचः पर्णमयीर्जुहुयाद्वैकङ्कतीः स्रुचो वा" इति ॥
- ↑ दर्शनोत्सुक.