पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२३५

पुटमेतत् सुपुष्टितम्
( २३३ )
एकादशः सर्गः ।

मरः॥ विक्रममभिनन्ध । ऋत्विजो याज्ञिकाः । वाचि यतो वाग्यतो मौनी तस्य कुलपतेर्मुनिकुलेश्वरस्य क्रियाः क्रतुक्रिया यथाक्रमं निरवर्तयन्निष्पादितवन्तः ॥

  तौ प्रणामचलकाकपक्षकौ भ्रातराव[१]वभृथाप्लुतो मुनिः ।
  आशिषामनुपदं समस्पृशद्दर्भपाटिततलेन पाणिना ॥ ३१ ॥

 ताविति ॥ अवभृथे दीक्षान्त आप्नुतः स्नातो मुनिः॥ “दीक्षान्तोऽवभृथो यज्ञः" इत्यमरः॥ प्रणामेन चलकाकपक्षकौ चञ्चलचूडौ तौ भ्रातरावाशिषामनुपदमन्वग्दर्भपाटिततलेन कुशक्षतान्तःप्रदेशेन । पवित्रेणेत्यर्थः । पाणिना समस्पृशसंस्पृष्टवान् । संतोषादिति भावः।

  तं न्यमन्त्रयत संभृतक्रतुर्मैथिलः स मिथिलां व्रजन्वशी।
  राघवावपि निनाय बिभ्रतौ तद्धनुःश्रवणजं कुतूहलम् ॥ ३२॥

 तमिति ॥ संभृतक्रतुः संकल्पितसंभारो मिथिलायां भवो मैथिलो जनकस्तं विश्वामित्रं न्यमन्त्रयताहूतवान् ॥ वशी स मुनिमिथिलां जनकनगरीं व्रजंस्तस्य जनकस्य यद्धनुस्तच्छ्रवणजं कुतूहलं विभ्रतौ राघवावपि निनाय नीतवान् ॥

  तैः शिवेषु वसतिर्गताध्वभिः सायमाश्रमतरुष्वगृह्यत ।
  येषु दीर्घतपसः परिग्रहो वासवक्षणकलत्रतां ययौ ॥ ३३ ॥

 तैरिति॥गताध्वभिस्तैस्त्रिभिः सायं शिवेषु रम्येष्वाश्रमतरुषु वसतिः स्थानमगृह्यत। येष्वाश्रमतरुषु दीर्घतपसो गौतमस्य परिग्रहः पत्नी॥पत्नीपरिजनादानमूलशापाः परिग्रहाः" इत्यमरः॥ अहल्येति यावत् । वासवस्येन्द्रस्य क्षणकलत्रतां ययौ ॥

  प्रत्यपद्यत चिराय य[२]त्पुनश्चारु गौतमवधूः शिलामयी।
  स्वं वपुः स[३] किल किल्बिषच्छिदां रामपादरजसामनुग्रहः॥३४॥

 प्रत्यपद्यतेति॥ शिलामयी भर्तृशापाच्छिलात्वं प्राप्ता गौतमवधूरहल्या चारु स्वं वपुश्चिराय पुनः प्रत्यपद्यत प्राप्तवती यत् । स किल्बिषच्छिदां पापहारिणाम् ॥ "पापं किल्विषकल्मषम्" इत्यमरः॥रामपादरजसामनुग्रहः किल प्रसादः। किलेति श्रूयते ॥

  राघवान्वितमुपस्थितं मु[४]निं तं निशम्य जनको जनेश्वरः ।
  अर्थकामस[५]हितं स[६]पर्यया देहबद्धमिव धर्ममभ्यगात् ॥ ३५॥

 राघवेति ॥ राघवाभ्यामन्वितं युक्तमुपस्थितमागतं तं मुनिं जनको जनेश्वरो निशम्य । अर्थकामाभ्यां सहितं देहबद्धं बद्धदेहम् । मूर्तिमन्तमित्यर्थः ॥ वाहिताग्न्यादित्वात्साधुः॥ धर्ममिव । सपर्ययाभ्यगात्प्रत्युद्गतवान् ॥


  1. अवभृथप्लुतः.
  2. या.
  3. सकलकल्मषच्छिदाम्.
  4. ऋषिम्,
  5. सहितः.
  6. स पर्ययात्.