पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२३६

पुटमेतत् सुपुष्टितम्
( २३४ )
रघुवंशे

  तौ विदेहनगरीनिवासिनां गां गताविव दिवः पुनर्वसू ।
  मन्यते स्म पिबतां विलोचनैः पक्ष्मपातमपि वञ्चनां मनः॥३६ ॥

 ताविति ॥ दिवः सुरवर्त्मन आकाशात् ॥ "द्यौः स्वर्गसुरवर्त्मनोः" इति विश्वः॥ गां भुवं गतौ ॥ " स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रघृणिभूजले । लक्ष्यदृष्टया स्त्रियां पुंसि गौः" इत्यमरः॥ पुनर्वसू इव तन्नामकनक्षत्राधिदेवते इव स्थितौ । तौ राघवौ विलोचनैः पिबताम् । अत्यास्थया पश्यतामित्यर्थः । विदेहनगरी मिथिला । तन्निवासिनां मनः । कर्तृ । पक्ष्मपातं निमेषमपि तदृर्शनप्रतिबन्धकत्वाद्वञ्चनां विडम्बनां मन्यते स्म मेने ॥"लट् स्मे" इति भूतार्थे लट् ॥

  यूपवत्यवसिते क्रियाविधौ कालवित्कुशिकवंशवर्धनः ।
  राममिष्वसनदर्शनोत्सुकं मैथिलाय कथयांबभूव सः ॥ ३७॥

 यूपेति ॥ यूपवति क्रियाविधौ कर्मानुष्ठाने । क्रतावित्यर्थः । अवसिते समाप्ते सति कालविदवसरज्ञः कुशिकवंशवर्धन: स मुनी रामम् । अस्यतेऽनेनेत्यसनम् । इषूणामसनमिष्वसनं चापम् । तस्य दर्शन उत्सुकं मैथिलाय जनकाय कथयांबभूव कथितवान् ॥

  तस्य वीक्ष्य ललितं वपुः शिशोः पार्थिवः प्रथितवंशजन्मनः ।
  स्वं विचिन्त्य च धनुर्दुरा[१]नमं पीडितो दुहितृशुल्कसंस्थया॥३८॥

 तस्येति ॥ पार्थिवो जनकः। प्रथितवंशे जन्म यस्य तस्य तथोक्तस्य । एतेन वरसंपत्तिरुक्ता। शिशोस्तस्य रामस्य ललितं कोमलं वपुर्वीक्ष्य । स्वं स्वकीयं दुरानममानमयितुमशक्यम् ॥ नमेर्ण्यन्तात्खल्॥ धनुर्विचिन्त्य च । दुहितृशुल्कं कन्यामूल्यं जामातृदेयम् । “शुल्कं घट्टादिदेये स्याज्जामातुर्वन्धकेऽपि च" इति विश्वः॥ तस्य धनुर्भङ्गरूपस्य संस्थया स्थित्या ॥ “संस्था स्थितौ शरे नाशे" इति विश्वः।। पीडितो बाधितः ॥ शिशुना रामेण दुष्करमिति दुःखित इति भावः ॥

  अब्रवीच्च भगवन्मतंगजैर्यदृहद्भिरपि कर्म दुष्करम् ।
  तत्र नाहमनुमन्तुमुत्सहे मोघवृत्ति कलभस्य चेष्टि[२]तम् ॥ ३९ ॥

 अब्रवीदिति ॥अब्रवीच्च । मुनिमिति शेषः। किमिति । हे भगवन्मुने, बृहद्भिर्मतंगजैर्महागजैरपि दुष्करं यत्कर्म तत्र कर्मणि कलभस्य बालगजस्य ॥“कलभः करिशावकः” इत्यमरः ॥ मोघवृत्ति व्यर्थव्यापारं चेष्टितं साहसमनुमन्तुमहं नोत्सहे ।।

  ह्येपिता हि बहवो नरेश्वरास्तेन तात धनुषा धनुर्भूतः।
  ज्यानिघातकठिनत्वचो भुजान्स्वान्विधूय धिगिति प्रतस्थिरे ॥ ४० ॥


  1. दुरासदम् .
  2. साहसम् .