यितं ऋतुमृगमनुसरति ॥ ताच्छील्ये णिनिः ॥ तं विद्रुतक्रतुमृगानुसारिणं बाणमसृजन्मुमोच ॥
आततेति ॥ स रामः संसदा सभया विस्मयेन स्तिमिते नेत्रे यस्मिन्कर्मणि तद्यथा स्यात्तथेक्षितः सन् । शैलस्येव सारो यस्य तच्छैलसारमपि धनुः । स्मरः पेशलं कोमलं पुष्पचापमिव । नातियत्नतो नातियत्नात् ॥ नञर्थस्य नशब्दस्य सुप्सुपेति समासः ॥ आततज्यमधिज्यमकरोत् ।।
भज्यमानमतिमात्रकर्षणात्तेन वज्रपरुषस्वनं धनुः।
भार्गवाय दृढमन्यवे पुनः क्षत्रमुद्यतमिव न्यवेदयत् ॥ ४६॥
भज्यमानमिति ॥ तेन रामेणातिमात्रकर्षणाद्भज्यमानमतएव वज्रपरुषस्वनम् । वज्रमिव परुषः स्वनो यस्य तत् । धनुः । कर्तृ । दृढमन्यवे दृढक्रोधाय ॥ "मन्युः क्रोधे क्रतौ देन्ये" इति विश्वः ॥ भार्गवाय क्षत्रं क्षत्रकुलं पुनरुद्यतं न्यवेदयदिव ज्ञापयामासेव ॥
दृष्टेति ॥ अथ मैथिलो जनको रुद्रकार्मुके दृष्टः सारः स्थिरांशो यस्य तद्दृष्टसारम् ॥ “सारो बले स्थिरांशे च" इति विश्वः ॥ वीर्यमेव शुल्कम् । धनुर्भङ्गरूपमित्यर्थः । अभिनन्द्य राघवाय रामायायोनिजां देवयजनसंभवां तनयां सीतां रूपिणीं श्रियमिव साक्षाल्लक्ष्मीमिव न्यवेदयदर्पितवान् । वाचेति शेषः ॥ उक्तमेवार्थं सोपस्कारमाह-
मैथिलः सपदि सत्यसंगरो राघवाय तनयामयोनिजाम् ।
संनिधौ द्युतिमतस्तपोनिधेर[७]ग्निसाक्षिक इवातिसृष्टवान् ॥१०॥
मैथिल इति ॥ सत्यसंगरः सत्यप्रतिज्ञः ॥ “अथ प्रतिज्ञाजिसंविदापत्सु संगरः" इत्यमरः ॥ मैथिलो राघवायायोनिजां तनयां द्युतिमतस्तेजस्विनस्तपोनिधेः कौशिकस्य संनिधौ । अग्निः साक्षी यस्य सोऽग्निसाक्षिकः ॥ “शेषाद्विभाषा" इति
कप्प्रत्ययः ॥ स इव । सपद्यतिसृष्टवान्दत्तवान् ॥