पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
( २३७ )
एकादशः सर्गः ।

  प्राहिणोच्च महितं म[]हाद्युतिः कोसलाधिपतये पुरोधसम् ।
  भृत्यभावि दुहितुः परिग्रहाद्दि[]श्यतां कुलमिदं निमेरिति ।। ४९॥

 प्राहिणोदिति ॥ महाद्युतिर्जनको महितं पूजितं पुरोधसं पुरोहितं कोसला- धिपतये दशरथाय प्राहिणोत्प्रहितवांश्च ॥ किमिति । निमिर्नाम जनकानां पूर्वजः कश्चित् । इदं निमेः कुलं दुहितुः सीतायाः परिग्रहात्स्नुषात्वेन स्वीकाराद्धेतोः। भृत्यस्य भावो भृत्यत्वम् ॥ सोऽस्यास्तीति भृत्यभावि दिश्यतामनुमन्यतामिति ॥

  अन्वियेष सदृशीं स च स्नुषां पाप चैनमनुकूलवाग्द्विजः ।
  []द्य एव सुकृतां हि पच्यते क[]ल्पवृक्षफलधर्मि काङ्क्षितम् ॥५०॥

 अन्वियेषेति ॥ स दशरथश्च सदृशीमनुरूपां स्नुषामन्वियेष । रामविवाहमा- चकाङ्क्षेत्यर्थः ॥ अनुकूलवाक्स्नुषासिद्धिरूपानुकूलार्थवादी द्विजो जनकपुरोधाश्चैनं दशरथं प्राप ॥ तथाहि । कल्पवृक्षफलस्य यो धर्मः सद्यःपाकरूपः सोऽस्यास्तीति कल्पवृक्षफलधर्मि । अतः सुकृतां पुण्यकारिणां काङ्क्षितं मनोरथः सद्य एव पच्यते हि ॥ कर्मकर्तरि लट् ॥ स्वयमेव पक्वं भवतीत्यर्थः ॥ “कर्मवत्कर्मणा तुल्यक्रियः" इति कर्मवद्भावात् “भावकर्मणोः" इत्यात्मनेपदम् ॥

  तस्य कल्पितपुरस्क्रियाविधेःशुश्रवान्वचनमग्रजन्मनः।
  उच्चचाल बलभित्सखो व[]शी सैन्यरेणुमुषितार्कदीधितिः ॥५१॥

 तस्येति ॥ बलभित्सख इन्द्रसहचरो वशी स्वाधीनतावान् ॥ वश आय- त्ततायां च" इति विश्वः ॥ कल्पितपुरस्क्रियाविधेः कृतपूजाविधेस्तस्याग्रजन्मनो द्विजस्य वचनं जनकेन संदिष्टं शुश्रुवाञ्छ्रुतवान् ॥ शृणोतेः क्वसुः ॥ सैन्यरेणुमुषि- तार्कदीधितिः सन्नुच्चचाल प्रतस्थे ।

  आससाद मिथिलां स वेष्टयन्पीडितोपवनप[]दपां बलैः ।
  प्रीतिरोधमसहिष्ट सा पुरी स्त्रीव कान्तपरिभोगमायतम् ॥५२॥

 आससादेति ॥ स दशरथो बलैः सैन्यैः पीडितोपवनपादपां मिथिलां वे- ष्टयन्परिधीकुर्वन् । आससाद । सा पुरी । स्त्री युवतिरायतमतिसक्तं कान्तपरि- भोगं प्रियसंभोगमिव । प्रीत्या रोधं प्रीतिरोधमसहिष्ट सोढवती ॥ द्वेषरोधं तु न सहत इति भावः॥

  तौ समेत्य स[]मये स्थितावुभौ भूपती वरुणवासवोपमौ ।
  कन्यकातनयकौतुकक्रियां स्वप्रभावसदृशीं वितेनतुः ॥५३॥


  1. महाद्युतिम्,
  2. इष्यताम्.
  3. सत्यम्.
  4. कल्पवृक्षसमधर्मकाङ्क्षितम्.
  5. बली.
  6. पादपैः.
  7. समयस्थितौ.