ताविति ॥समये स्थितावाचारनिष्ठौ ॥ "समयाः शपथाचारकालसिद्धान्तसं- विदः"इत्यमरः ॥ वरुणवासवावुपमोपमानं ययोस्तौ तथोक्तौ । तावुभौ भूपती ज- नकदशरथौ समेत्य स्वप्रभावसदृशीमात्ममहिमानुरूपां कन्यकानां सीतादीनां तन- यानां रामादीनां च कौतुकक्रियां विवाहोत्सवं वितेनतुर्विस्तृतवन्तौ ॥ तनोतेर्लिट्॥
पा[१]र्थिवीमुदवहद्रघूद्वहो लक्ष्मणस्तदनुजामथोर्मिलाम् ।
यौ तयोरवरजौ वरौजसौ तौ कुशध्वजसुते सुमध्यमे ॥५४॥
पार्थिवीमिति ॥ उद्वहतीत्युद्वहः ॥ पचाद्यच् ॥ रघूणामुद्वहो रघूद्वहो रामः। पृथिव्या अपत्यं स्त्री पार्थिवी ॥ " तस्यापत्यम्" इत्यणि “ टिड्ढा-" इति ङीप्। तां सीतामुदवहत्परिणीतवान् ॥ अथ लक्ष्मणस्तस्याः सीताया अनुजां जनकस्यौ- रसीमूर्मिलामुदवहत् ॥ यौ वरौजसौ तयो रामलक्ष्मणयोरवरजावनुजातौ भरतश- त्रुघ्नौ तौ सुमध्यमे कुशध्वजस्य जनकानुजस्य सुते कन्यके माण्डवीं श्रुतकीर्तिं चो- दवहताम् ॥ नात्र व्युत्क्रमविवाहदोषो भिन्नोदरत्वात् ॥ तदुक्तम्- "पितृव्यपुत्रे सापत्न्ये परनारीसुतेषु च । विवाहाधानयज्ञादौ परिवेत्ताद्यदूषणम्" इति ॥
ते चतुर्थसहितास्त्रयो बभुः सूनवो नववधूप[२]रिग्रहाः।
सामदानविधिभेदनिग्रहाः सिद्धिमन्त इव तस्य भूपतेः॥५५॥
त इति ॥ ते चतुर्थसहितास्त्रयः । चत्वार इत्यर्थः । वृत्तानुसारादेवमुक्तम् । सूनवो नववधूपरिग्रहाः । सिद्धिमन्तः फलसिद्धियुक्तास्तस्य भूपतेर्दशरथस्य सा- मदानविधिभेदनिग्रहाश्चत्वार उपाया इव । बभुः ॥ विधीयत इति विधिः । दान- मेव विधिः । निग्रहो दण्डः । सुनूनामुपायैर्वधूनां सिदिभिश्चौपम्यमित्यनुसंधेयम्॥
ता न[३]राधिपसुता नृपात्मजैस्ते च ताभिरगमन्कृतार्थताम् ।
सोऽभवद्वरवधूसमागमः प्रत्ययप्रकृतियोगसंनिभः॥५६॥
ता इति ॥ ता नराधिपसुता जनककन्यका नृपात्मजैर्दशरथपुत्रैः कृतार्थतां कुलशीलवयोरूपादिसाफल्यमगमन् । ते च ताभिस्तथा ॥ किंच । स वराणां व- धूनां च समागमः । प्रत्ययानां प्रकृतीनां च योग इव । संनिभातीति संनिभः । अभवत् ॥ पचाद्यच् ॥ प्रत्ययाः सनादयो येभ्यो विधीयन्ते ताः प्रकृतयः ॥ यथा प्रकृतिप्रत्यययोः सहैकार्थसाधनत्वं तद्वदत्रापीति भावः ॥
एवमात्तरतिरात्मसंभवांस्तान्निवेश्य चतुरोऽपि तत्र सः ।
अध्वसु त्रिषु विसृष्टमैथिलः स्वां पुरीं दशरथो न्यवर्तत ॥ ५७॥
५६-५७ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते--
ते चतुर्थसहितास्त्रयो बभुः सूनवो नववधूपरिग्रहाः ।
सामदानविधिभेदनिग्रहाः सिद्धिमन्त इव तस्य भूपतेः ।।