एवमिति । एवमात्तरतिरनुरागवान्स दशरथस्तांश्चतुरोऽप्यात्मसंभवान्पुत्रां- स्तत्र मिथिलायां निवेश्य विवाह्य ॥ “निवेशः शिबिरोद्वाहविन्यासेषु प्रकीर्तितः इति विश्वः ॥ त्रिष्वध्वसु प्रयाणेषु सत्सु विमृष्टमैथिलः सन् । स्वां पुरी न्यवर्तत। उद्देशक्रियापेक्षया कर्मत्वं पुर्याः ॥
तस्य जातु मरुतः प्रतीपगा व[१]र्त्मसु ध्वजतरुप्रमाथिनः ।
चिक्लिशुर्भृशतया वरूथिनीमुत्तटा इव नदीरयाः स्थलीम् ॥५०॥
तस्येति ॥ जातु कदाचिद्वर्त्मसु ध्वजा एव तरवस्तान्प्रमथ्नन्ति ये ते ध्वज- तरुप्रमाथिनः प्रतीपगाः प्रतिकूलगामिनो मरुतः । उत्तटा नदीरयाः स्थलीमकृत्रि- मभूमिमिव ॥ “जानपदकुण्ड-" इत्यादिना ङीप् ॥ तस्य वरूथिनीं सेनां भृश- तया भृशं चिक्लिशुः क्लिश्यन्ति स्म ॥
लक्ष्यत इति ॥ तदनन्तरं प्रतीपपवनानन्तरं बद्धं भीमं परिवेशस्य परिधेर्म- ण्डलं यस्य सः ॥ “परिवेशस्तु परिधिरुपसूर्यकमण्डले" इत्यमरः ॥ रविः । वै- नतेयशमितस्य गरुडहतस्य भोगिनः सर्पस्य भोगेन कायेन ॥ " भोगः सुखे स्त्र्या- दिभृतावहेश्च फणकाययोः" इत्यमरः ॥ वेष्टितश्च्युतः शिरोभ्रष्टो मणिरिव । लक्ष्यते स्म ॥
श्येनपक्षपरिधूसरालकाः सांध्यमेघरुधिरार्द्रवाससः ।
अङ्गना इव रजस्वला दिशो नो बभूवुरवलोकनक्षमाः॥६०॥
श्येनेति ॥ श्येनपक्षा एव परिधूसरा अलका यासां तास्तथोक्ताः । सांध्यमे- घा एव रुधिरार्द्राणि वासांसि यासां तास्तथोक्ताः । रजो धूलिरासामस्तीति र- जस्वलाः ॥ " रजःकृष्यासुतिपरिषदो वलच्" इति वलच्प्रत्ययः ॥ दिशः। रज- स्वला ऋतुमत्योऽङ्गना इव । “स्याद्रजः पुष्पमार्तवम्" इत्यमरः । अवलोकनक्षमा दर्शनार्हा नो बभूवुः ॥ एकत्रादृष्टदोषादपरत्र शास्त्रदोषादिति विज्ञेयम् ॥ अत्र र- जोवृष्टिरुत्पात उक्तः॥
भास्करश्च दिशमध्युवास यां तां श्रिताः प्रतिभयं ववासिरे ।
क्षत्रशोणितपितृक्रियोचितं चो[४]दयन्त्य इव भार्गवं शिवाः ॥६१॥
भास्कर इति ॥ भास्करो यां दिशमध्युवास च यस्यां दिश्युषितः । “उ-
पान्वध्याङ्वसः" इति कर्मत्वम् ॥ तां दिशं श्रिताः शिवा गोमायवः ॥ “स्त्रियां