पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
( २४१ )
एकादशः सर्गः ।

  अक्षबीजवलयेन निर्बभौ दक्षिणश्रवणसंस्थितेन यः[१]
  क्षत्रियान्तकरणेकविंशतेाजपूर्वगणनामिवोद्वहन् ॥ ६६ ।।

 अक्षेति ॥ यो भार्गवो दक्षिणश्रवणे मंस्थितेनाक्षबीजवलयेनाक्षमालया क्षत्रि- यान्तकरणानां क्षत्रियवधानामेकविंशतेरेकविंशतिसंख्याया व्याजोऽक्षमालारूपः पूर्वो यस्यास्तां गणनामुगृहन्निव निर्बभौ ॥

  तं पितुर्वधभवेन मन्युना राजवंशनिधनाय दीक्षितम् ।
  बालसनुरवलोक्य भार्गवं स्वां दशां च विषसाद पार्थिव ॥६॥

 तमिति ॥ पितुर्जमदग्नेर्वधभवेन क्षत्रियकर्तृकवधोद्भवेन मन्युना कोपेन राजवं- शानां निधनाय नाशार्थम् ॥ “निधनं स्यात्कुले नाशे” इति विश्वः ॥ दीक्षितम् । प्रवृत्तमित्यर्थः । तं भार्गवं स्वां दशां चावलोक्य बाला: मूनवो यस्य स पार्थिवो विषसाद ॥ स्वस्यातिदौर्बल्याच्छतोश्चातिक्रोधात्कांदिशीकोऽभवदित्यर्थः ॥

  ना[२]म राम इति तुल्यमात्मजे वर्तमानमहिते च दारुणे।
  हृद्यमस्य भयदायि चाभवद्रत्नजातमिव हारसर्पयोः॥ ६८॥

 नामेति ॥ आत्मजे पुत्रे दारुणे घोरेऽहिते शत्रौ च तुल्यमविशेषेण वर्तमान राम इति नाम । हारसर्पयोर्वर्तमानं रत्नजातं रत्नजातिरिव । अस्य दशरथस्य हृधं हृदयंगमं भयदायि भयंकरं चाभवत् ॥

  अर्घ्यमय॑मिति वादिनं नृपं सोऽनवेक्ष्य भरताग्रजो यतः।
  क्षत्रकोपदहनार्चिषं ततः संदधे दृशमुदग्रतारकाम् ॥ ६९॥

 अर्ध्यमिति ॥ स भार्गवः । अर्घ्यमय॑मिति वादिनं नृपमनवेक्ष्य । यतो यत्र भरताग्रजस्ततस्तत्र ॥ “इतराभ्योऽपि दृश्यन्ते" इति सार्वविभक्तिकस्तसिः॥ क्षत्रे क्षत्रकुले विषये यः कोपदहनो रोषानिस्तस्याचिषं ज्वालामिव स्थिताम् ॥ ज्वालाभासोर्न पुंस्यचिः" इत्यमरः ॥ उदग्रा तारका कनीनिका यस्यास्ताम् ॥ तारकाक्ष्णः कनीनिका" इत्यमरः ॥ दृशं संदधे ॥

  तेन कार्मुकनिषक्तमुष्टिना राघवो विगतभीः पुरोगतः ।
  अगलीविव[३]रचारिणं शरं कुर्वता निजगदे युयुत्सुना ॥ ७० ॥

 तेनेति ॥कार्मुकनिषक्तमुष्टिना । शरमङ्गुलीविवरचारिणं कुर्वता । योद्धुमिच्छता युयुत्सुना । तेन भार्गवेण ! कर्त्रा। विगतभीनिर्भीकः सन् । पुरोगतोऽग्रगतो राघवो निजगद उक्तः॥ कर्मणि लिट् ॥


66


  1. सः.
  2. रामनाम:.
  3. विवरवर्तिनम्.