पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
( २४२ )
रघुवंशे

  क्षत्रजातम[१]पकारवैरि मे तन्निहत्य बहुशः शमं गतः ।
  सुप्तसर्प इव दण्डघट्टनाद्रोषि[२]तोऽस्मि तव विक्रमश्रवात् ॥७१ ॥

 क्षत्रेति ॥क्षत्रजातं क्षत्रजातिर्मेऽपकारेण पितृवधरूपेण वैरि द्वेषि । तत्क्षत्रजातं बहुश एकविंशतिवारानिहत्य शमं गतोऽस्मि ॥ तथापि सुप्तसो दण्डघटनादिव तव विक्रमस्य श्रवादाकर्णनाद्रोषितो रोषं प्रापितोऽस्मि ॥

  मैथिलस्य धनुरन्यपार्थिवैस्वं किलानमितपूर्वम[३]क्षणोः।
  तन्निशम्य भवता समर्थये वीर्यशृङ्गमिव भग्नमात्मनः ॥७२॥

 मैथिलेति ॥ अन्यैः पार्थिवैः । अनमितपूर्व पूर्वम मतम् ॥ मुप्मुपैति समासः ॥ अस्य मैथिलस्य धनुस्त्वमक्षणोः क्षतवान् । किलेति वार्तायाम् ॥ “वार्ता संभाव्ययोः किल" इत्यमरः ॥ तद्धनुर्भनं निशम्याकर्ण्य भवतात्मनो मम वीर्यमेव शृङ्गं भममिव समर्थये मन्ये ।।

  अन्यदा ज[४]गति राम इत्ययं शब्द उच्चरित एव मामगात् ।
  व्रीडमावहति मे स संप्रति व्यस्तवृत्तिरुदयोन्मुखे त्वयि ॥७३॥

 अन्यदेति ॥ अन्यदान्यस्मिन्काले जगति राम इत्ययं शब्द उच्चरितः सन्मामेवागात् ॥ संप्रति त्वय्युदयोन्मुखे सति व्यस्तत्तिविपरीतत्तिः । अन्यगामीति यावत् । स शब्दो मे व्रीडमावहति लज्जां करोति ॥

  बिभ्रतोऽस्त्रमचलेऽप्यकुण्ठितं द्वौ रिपू मम मतौ समागसौ ।
  धे[५]नुवत्सहरणाच्च हैहयस्त्वं च कीर्तिमपहर्तुमुद्यतः ॥ ७४ ॥

 बिभ्रत इति ॥ अचले क्रौञ्चादावप्यकुण्ठितमस्त्रं बिभ्रतो मम द्वौ समागसौ तुल्यापराधी रिपू मतौ । धेनोः पितृहोमधेनोर्वत्सस्य हरणाद्धेतोर्हैहयः कार्तवीर्यश्च च । कीर्तिमपहर्तुमुद्यत उद्युक्तस्त्वं च ॥ वत्सहरणे भारतश्लोकः--"प्रमत्तश्चाश्रमात्तस्य होमधेन्वास्ततो बलात् । जहार वत्सं क्रोशन्त्या अभञ्ज च महाद्रुमान्" इति।।

  क्षत्रियान्तकरणोऽपि विक्रमस्तेन मामवति नाजिते त्वयि ।
  पावकस्य महिमा स गण्यते कक्षवज्ज्वलति सागरेऽपि यः॥७५॥

 क्षत्रियोति ॥ तेन कारणेन । क्रियते येनासौ करणः। क्षत्रियान्तस्य करणाऽपि विक्रमः । त्वय्यजिते । मां नावति न प्रीणाति । तथाहि । पावकस्याग्नेर्महिमा स गण्यते यः कक्षवत्कक्ष इव ॥ तत्र तस्यैव" इति सप्तम्यर्थे वतिः॥

सागरे&पि ज्वलति॥


  1. अपकारि वैरि.
  2. उद्यतः; उत्थितः
  3. अक्षिणो:.
  4. जयति.
  5. तातधेनुहरणात् .