पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
( २४५ )
एकादशः सर्गः ।

  भस्मसात्कृतवतः पितृद्विषः पा[१]त्रसाच्च वसुधां ससागराम् ।
  आहितो जयविपर्ययोऽपि मे श्लाघ्य एव परमेष्ठिना त्वया ॥८६॥

 भस्मसादिति ॥ पितृद्विषः पितृवैरिणो भस्मसात्कृतवतः कोपेन भस्मीकुर्वतः॥ "विभाषा सातिकार्त्स्न्ये " इति सातिप्रत्ययः ॥ ससागरां वसुधां च पात्रसात्पात्राधीनं देयं कृतवतः ॥ "देये त्रा च" इति चकारात्सातिः ॥ कृतकृत्यस्य मे परमेष्ठिना परमपुरुषेण त्वयाहितः कृतो जयविपर्ययः पराजयोऽपि श्लाघ्य आशास्य एव

  तद्गतिं मतिमतां वरेप्सितां पुण्यतीर्थगमनाय रक्ष मे ।
  पीडयिष्यति न मां खिलीकृता स्वर्गपद्धतिरभोगलोलपम् ॥८७॥

 तदिति ॥ तत्तस्मात्कारणाद्धे मतिमतां वर पुण्यतीर्थगमनायाभुमिष्टामीप्सितां मे गति रक्ष पालय । किंतु खिलीकृता दुर्गमीकृतापि खर्गपद्धतिरभोगलोलुपं भोगनिःस्पृहं मां न पीडयिष्यति । अतस्तामेव जहीत्यर्थः॥

  प्रत्यपद्यत तथेति राघवः प्रा[२]ङ्मुखश्च विससर्ज सायकम् ।
  भार्गवस्य सुकृतोऽपि सोऽभवत्स्वर्गमार्गपरिघो दुरत्ययः॥८८॥

 प्रत्यपद्यतेति ॥ राघवस्तथेति प्रत्यपद्यताङ्गीकृतवान् । प्राङ्मुख इन्द्रदिङ्मुखः सायकं विससर्ज च । स सायकः सुकृतोऽपि साधुकारिणोऽपि॥करोतेः क्विप् ५॥ भार्गवस्य दुरत्ययो दुरतिक्रमः स्वर्गमार्गस्य परिघः प्रतिबन्धोऽभवत् ॥

  राघवोऽ[३]पि चरणौ तपोनिधेः क्षम्यतामिति वदन्समस्पृशत् ।
  निर्जितेषु तरसा तरस्विनां शत्रुषु प्रणतिरेव कीर्तये ॥ ८९॥

 राघव इति ॥ राघवोऽपि क्षम्यतामिति वदस्तपोनिधेर्भार्गवस्य चरणौ समस्पृशत्मणनाम ॥ तथाहि । तरस्विनां बलवतां तरसा बलेन निर्जितेषु शत्रुषु प्रणतिरेव कीर्तये । भवतीति शेषः॥

  राजसत्वमवधूय मातृकं पित्र्यमस्मि गमितः शमं य[४]दा ।
  नन्वनिन्दितफे[५]लो म[६]म त्वया निग्रहोऽप्ययम[७]नुग्रहीकृतः॥९०॥

 राजसत्वमिति॥मातुरागतं मातृकं राजसत्वं रजोगुणप्रधानत्वमवधूय पितुरागतं पित्र्यं शमं यदा गमितोऽस्मि । तदा त्वया ममापेक्षितत्वादनिन्दितमगर्हितं फलं स्वर्गहानिलक्षणं यस्य सोऽयं निग्रहोऽपकारोऽप्यनुग्रहीकृतो ननूपकारीकृतः खलु॥

१ २ ३ ४ ५ ६ ७


  1. विप्प्रसात्.
  2. प्राङ्मुखम् .
  3. अथ.
  4. यतः.
  5. फले.
  6. मयि.
  7. अनुग्रहः कृतः.