पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
( २४६)
रघुवंशे

  सा[१]धयाम्यहमविघ्नमस्तु ते देवकार्यमुपपादयिष्यतः।
  ऊचिवानिति वचः सलक्ष्मणं लक्ष्मणाग्रजमृषिस्तिरोदधे ॥९॥

 साधयामीति ॥ अहं साधयामि गच्छामि । देवकार्यमुपपादयिष्यतः संपादयिष्यतस्तेऽविघ्नमस्तु विघ्नाभावोऽस्तु ॥ “अव्ययं विभक्ति-" इत्यादिनार्थाभावेऽव्ययीभावः ॥ सह लक्ष्मणेन सलक्ष्मणः । तम् ॥ " तेन सहेति तुल्ययोगे" इति बहुव्रीहिः ॥ लक्ष्मणाग्रजं राममिति वच अचिवानुक्तवान् ॥ ब्रूञः क्वसुः॥ ऋषिस्तिरोदधेऽन्तर्दधे ॥

  तस्मिन्गते विजयिनं परिरभ्य रामं
   स्नेहादमन्यत पिता पुनरेव जातम् ।
  तस्याभवत्क्षणशुचः परितोषलाभः
   कक्षामिलजिततरोरिव वृष्टिपातः ॥ ९२ ॥

 तस्मिन्निति ॥ तस्मिन्भार्गवे गते सति । विजयिनं रामं पिता स्नेहापरिरभ्यालिङ्गय पुनर्जातमेवामन्यत ॥ क्षणं शुग्यस्येति विग्रहः । क्षणशुचस्तस्य दशरथस्य परितोषलाभः संतोषपातिः । कक्षाग्निना दावानलेन । कक्षः शुष्ककाननवीरुधोः" इति विश्वः ॥ लचितस्याभिहतस्य तरोदृष्टिपात इव । अभवत् ॥

  अथ पथि गमयित्वा क्लृप्तरम्योपकार्ये
   कतिचिदवनिपालः शर्वरीः शर्वकल्पः ।
  पुरमविशदयोध्यां मैथिलीदर्शनीनां
  कुवलयितगवाक्षां लोचनैरङ्गनानाम् ॥ ९३ ॥

 अथेति ॥ अथ । ईषदसमाप्तः शर्वः शर्वकल्पः ॥ " ईषदसमाप्तौ-" इति कल्पप्पत्ययः॥ अवनिपालः कप्ता रम्या नवा उपकार्या यस्मिन्स तस्मिन्पथि क तिचिच्छवरी रात्रीगमयित्वा मैथिलीदर्शनीनामङ्गनानां लोचनैः कुवलयानि येषां संजातानि कुवलयिताः॥ “तदस्य संजातं तारकादिभ्य इतच्" इतीतच्मत्ययः॥ कुवलयिता गवाक्षा यस्यास्तां पुरमयोध्यामविशत्मविष्टवान् ॥

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
सीताविवाहवर्णनो नामैकादशः सर्गः ।



  1. साधु यामि.