पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२५

पुटमेतत् सुपुष्टितम्
( २३ )
प्रथमः सर्गः ।

 ननु तपोदानादिसंपन्नस्य किमपत्यैरित्यत्राह--

  लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम् ।
  संततिः []शुद्धवंश्या हि[] परत्रेह च शर्मणे ॥६९ ।।

 लोकान्तरेति ॥ समुद्भवत्यस्मादिति समुद्भवः कारणम् । तपोदाने समुद्भवो यस्य तत्तपोदानसमुद्भवं यत्पुण्यं तल्लोकान्तरे परलोके सुखं सुखकरम् ॥ शुद्धवंशे भवा शुद्धवंश्या संततिर्हि परत्र परलोक इह च लोके शर्मणे सुखाय ॥ “शर्मशातसुखानि च" इत्यमरः ॥ भवतीति शेषः॥

  तया हीनं वि[]धातर्मा कथं पश्यन्न दूयसे ।
  सिक्तं स्वयमिव स्नेहाद्वन्ध्यमाश्रम[]वृक्षकम् ॥ ७० ॥

 तयेति ॥ हे विधातः स्रष्टः, तया संतत्या हीनमनपत्यं माम् । स्नेहात्प्रेम्णा स्वयमेव सिक्तं जलसेकेन वर्धितं वन्ध्यमफलम् ॥ "वन्ध्योऽफलोऽवकेशी च इत्यमरः ॥ आश्रमस्य वृक्षकं वृक्षपोतमिव । पश्यन्कथं न दूयसे न परितप्यसे ॥ विधातरित्यनेन समर्थोऽप्युपेक्षस इति गम्यते ॥

  असह्यपीडं भगव[]न्नृणमन्त्यमवेहि मे ।
  अरुंतुदमिवालानम[]निर्वाणस्य दन्तिनः ॥ ७१ ॥

 असह्येति ॥ हे भगवन्, मे ममान्त्यमृणं पैतृकमृणम् । अनिर्वाणस्य मज्जनरहितस्य ॥ “निर्वाणं निर्वृतौ मोक्षे विनाशे गजमज्जने” इति यादवः ॥ दन्तिनो गजस्य । अरुर्मर्म तुदतीत्यरुंतुदं मर्मस्पृक् ॥ “व्रणोऽस्त्रियामीर्ममरुः” इति ॥ अरुंस्तुदस्तु मर्मस्पृक्" इति चामरः ॥ “ विध्वरुषोस्तुदः” इति खश्प्रत्ययः । “अरुर्द्विषत्-” इत्यादिना मुमागमः ॥ आलानं बन्धनस्तम्भमिव ॥ “ आलानं बन्धनस्तम्भे” इत्यमरः ॥ असह्या सोढुमशक्या पीडा दुःखं यस्मिंस्तदवेहि । दुःसहदुःखजनकं विद्धीत्यर्थः ।। “निर्वाणोत्थानशयनानि त्रीणि गजकर्मणि” इति पालकाव्ये ॥ “ऋणं देवस्य यागेन ऋषीणां दानकर्मणा । संतत्या पितृलोकानां शोधयित्वा परिव्रजेत्”॥

  तस्मा[]न्मुच्ये यथा तात संविधातुं []तथार्हसि ।
  इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः॥७२॥

 तस्मादिति ॥ हे तात, तस्मात्पैतृकादृणाद्यथा मुच्ये मुक्तो भवामि ॥ कर्मणि लट् ॥ तथा संविधातुं कर्तुमर्हसि । हि यस्मात्कारणादिक्ष्वाकूणामिक्ष्वाकुवंश्याना



  1. शुद्धवंशा.
  2. तु.
  3. विनेतर; वितानम्.
  4. पादपम्.
  5. ऋणबन्धम्.
  6. नवबद्धस्य.
  7. यथा विमुच्येऽहम्.
  8. यथा.