स हि प्रथमजे तस्मिन्नकृतश्रीपरिग्रहे ।
परिवेत्तारमात्मानं मेने स्वीकरणाद्भुवः ।। १६ ॥
सहीति ॥ स हि भरतः प्रथमजेऽग्रजे तस्मिन् रामेऽकृतश्रीपरिग्रहे सति स्वयं भुवः स्वीकरणादात्मानं परिवेत्तारं मेने ॥ “परिवेत्तानुजोऽनूढे ज्येष्ठे दारपरिग्रहात्" इत्यमरः ॥ भूपरिग्रहोऽपि दारपरिग्रहसम इति भावः ॥
तमशक्यमपाक्रष्टुं निदे[१]शात्स्वर्गिणः पितुः ।
ययाचे पादुके पश्चात्कर्तुं राज्याधिदेवते ।। १७ ॥
तमिति ॥ स्वर्गिणः पितुर्निदेशादपाक्रष्टुं निवर्तयितुमशक्यं तं रामं पश्चाद्राज्याधिदेवते स्वामिन्यौ कर्तुं पादुके ययाचे ॥
स विसृष्टस्तथेत्युक्त्वा भ्रात्रा नैवाविशत्पुरीम् ।
नन्दिग्रामगतस्तस्य राज्यं न्यासमिवाभुनक् ॥ १८॥
स इति ॥ स भरतो भ्रात्रा रामेण तथेत्युक्त्वा विसृष्टः सन्पुरीमयोध्यां नाविशदेव । किंतु नन्दिग्रामगतः संस्तस्य रामस्य राज्यं न्यासमिव निक्षेपमिवाभुनगपालयत् । न तूपभुक्तवानित्यर्थः । अन्यथा “भुजोऽनवने" इत्यात्मनेपदप्रसङ्गात् ॥ भुजेर्लङ् ॥
दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः ।
मातुः पापस्य भ[२]रतः प्रायश्चित्तमिवाकरोत् ॥१९॥
दृढेति॥ ज्येष्टे दृढभक्ती राज्यतृष्णापराङ्मुखो भरत इति पूर्वोक्तानुष्ठानेन मातुः पापस्य प्रायश्चित्तं तदपनोदकं कर्माकरोदिव । इत्युत्प्रेक्षा ॥ दृढभक्तिरित्यत्र दृढशब्दस्य “स्त्रियाः पुंवत्'-' इत्यादिना पुंवद्भावो दुर्घटः । “अप्रियादिषु" इति निषेधात् । भक्तिशब्दस्य प्रियादिषु पाठात् । अतो दृढं भक्तिरस्येति नपुंसकपूर्वपदो बहुव्रीहिरिति गणव्याख्याने दृढभक्तिरित्येवमादिषु पूर्वपदस्य नपुंसकस्य विवक्षितत्वात्सिद्धमिति समाधेयम् ॥ वृत्तिकारश्च-दीर्घनिवृत्तिमात्रपरो दृढभक्तिशब्दो लिङ्गविशेषस्यानुपकारत्वात्स्त्रीत्वमविवक्षितमेव। तस्मादस्त्रीलिङ्गत्वादृढभक्तिशब्दस्यायं प्रयोग इत्यभिप्रायः॥ न्यासकारोऽप्येवम् ॥ भोजराजस्तु -"कर्मसाधनस्यैव भक्तिशब्दस्य प्रियादिपाठाद्भवानीभक्तिरित्यादौ कर्मसाधनत्वात्पुंवद्भावप्रतिषेधः । दृढभक्तिरित्यादौ भावसाधनत्वात्पुंवद्भावसिद्धिः पूर्वपदस्य"इत्याह ।
रामोऽपि सह वैदेह्या व[३]ने वन्येन वर्तयन् ।
चचार सानुजः शान्तो वृद्धेश्वाकुव्रतं युवा ॥ २०॥