प्रययाविति ॥ स रामः । अतिथिषु साधून्यातिथेयानि ॥ “पथ्यतिथिवसतिस्वपतेर्ढञ्" इति ढप्रत्ययः ॥ तेष्वृषिकुलेष्तृष्याश्रमेषु ॥ "कुलं कुल्ये गणे देहे गेहे जनपदेऽन्वये" इति हैमः ॥ वर्षासु भवानि वार्षिकाणि ॥ “वर्षाभ्यष्ठक्" इति ठक्प्रत्ययः । तेष्वृक्षेषु नक्षत्रेषु राशिषु वा भास्कर इव । वसन्दक्षिणां दिशं प्रययौ ॥
बभौ तमनुगच्छन्ती विदेहाधिपतेः सुता।
प्रतिषिद्धापि कैके[१]य्या लक्ष्मीरिवि गुणोन्मुखी ॥ २६ ॥
बभाविति ॥ तं राममनुगच्छन्ती विदेहाधिपतेः सुता सीता कैकेय्या प्रतिषिद्धा निवारितापि गुणोन्मुखी गुणोत्सुका लक्ष्मी राजलक्ष्मीरिव बभौ ॥
अनुसूया[२]तिसृष्टेन पुण्यगन्धेन काननम् ।
सा चकाराङ्गरागेण पुष्पोच्चलितषट्पदम् ॥२७॥
अनुसूयेति ॥ सा सीतानुसूययात्रिभार्ययातिसृष्टेन दत्तेन पुण्यगन्धेनाङ्गरागेण काननं वनं पुष्पेभ्य उच्चलिता निर्गताः षट्पदा यस्मिंस्तत्तथाभूतं चकार ॥
संध्याभ्रकपिशस्त[३]स्य विराधो नाम राक्षसः ।
अतिष्ठन्मार्गमावृत्य रामस्येन्दोरिव ग्रहः ॥२८॥
संध्येति ॥ संध्याभ्रकपिशो विराधो नाम राक्षसः । ग्रहो राहुरिन्दोरिव । तस्य रामस्य मार्गमध्वानमावृत्यावरुध्यातिष्ठत् ॥
स जहार तयो[४]र्मध्ये मैथिली लोकशोषणः ।
नभोनभस्ययोर्वृष्टिमवग्रह इवान्तरे ॥ २९ ॥
स इति ॥ लोकस्य शोषणः शोषकः स राक्षसस्तयो रामलक्ष्मणयोर्मध्ये मैथिलीम् । नभोनभस्ययोः श्रावणभाद्रपदयोरन्तरे मध्ये वृष्टिमवग्रहो वर्षप्रतिबन्ध इव । जहार ॥ " वृष्टिर्वर्षं तद्विघातेऽवग्राहावग्रहौ समौ" इत्यमरः ॥
त विनिष्पिष्य काकुत्स्थौ पुरा दूषयति स्थलीम् ।
गन्धेनाशुचिना चेति वसुधायां निचख्नतुः॥३०॥
तमिति ॥ ककुत्स्थस्य गोत्रापत्ये पुमांसौ काकुत्स्थौ रामलक्ष्मणौ तं विराधं विनिष्पिष्य हत्वा । अशुचिनापवित्रेण गन्धेन स्थलीमाश्रमभुवं पुरा दूषयति दूषयिष्यतीति हेतोः॥" यावत्पुरानिपातयोर्लट्" इति भविष्यदर्थे लट् ॥ वसुउदङ्कपाट्यांशः-
धायां निचख्न्तुर्भूमौ खनित्वा निक्षिप्तवन्तौ च ॥