पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२५५

पुटमेतत् सुपुष्टितम्
( २५३ )
द्वादशः सर्गः ।

  पञ्चवट्यां त[]तो रामः शासनात्कुम्भजन्मनः ।
  अनपोढस्थितिस्तस्थौ विन्ध्याद्रिः प्रकृताविव ॥ ३१ ॥

 पञ्चवट्यामिति ॥ ततो रामः कुम्भजन्मनोऽगस्त्यस्य शासनात् । पञ्चानां वटानां समाहारः पञ्चवटी ॥ "तद्धितार्थ-" इति तत्पुरुषः । “संख्यापूर्वो द्विगुः" इति द्विगुसंज्ञायाम् “द्विगोः” इति ङीप् । “द्विगुरेकवचनम्" इत्येकवचनम् ॥ तस्यां पञ्चवट्याम् । विन्ध्याद्रिः प्रकृतौ वृद्धः पूर्वावस्थायामिव । अनपोढस्थितिरनतिक्रान्तमर्यादस्तस्थौ ॥

  रावणावरजा तत्र राघवं मदनातुरा।
  []भिपेदे निदाघार्ता व्यालीव मलयद्रुमम् ॥ ३२ ॥

 रावणावरजेति ॥ तत्र पञ्चवट्यां मदनातुरा रावणावरजा शूर्पणखा ॥ “पूर्वपदात्संज्ञायामगः" इति णत्वम् ॥ राघवम् । निदाघार्ता घर्मतप्ता व्याकुला व्याली भुजंगी मलयद्रुमं चन्दनद्रुममिव । अभिपेदे पाप ॥

  सा सीतासंनिधावेव तं वव्रे कथितान्वया।
  अत्यारूढो हि नारीणामकालज्ञो मनोभवः॥ ३३ ॥

 सेति ॥ सा शूर्पणखा सीतासंनिधावेव कथितान्वया कथितस्ववंशा सती तं रामं वव्रे वृतवती ॥ तथाहि । अत्यारूढोऽतिप्रवृद्धो नारीणां मनोभवः कामः कालज्ञोऽवसरज्ञो न भवतीत्यकालज्ञो हि ॥

  कलत्रवानहं बाले कनीयांसं भजस्व मे ।
  इति रामो वृषस्यन्तीं वृषस्कन्धः शशास ताम् ॥ ३४ ॥

 कलत्रवानिति ॥ वृषः पुमान् ॥ " वृषः स्याद्वासवे धर्मे सौरभेये च शुक्रले। पुंराशिभेदयोः शृङ्ग्यां मूषकश्रेष्ठयोरपि" इति विश्वः॥ वृषं पुरुषमात्मार्थमिच्छतीति वृषस्यन्ती कामुकी।। "वृषस्यन्ती च कामुकी" इत्यमरः ॥ "सुप आत्मनः क्यच्" इति क्यच्यत्ययः । “अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि" इत्यसुगागमः । ततो लदः शत्रादेशः । “उगितश्च" इति ङीप् ॥ श्लोकार्थस्तु वृषस्कन्धो रामो वृषस्यन्तीं तां राक्षसीम् 'हे बाले, अहं कलत्रवान्, मे कनीयांसं कनिष्ठं भजस्व' इति शशासाज्ञापितवान् ।

  ज्येष्ठाभिगमनात्पूर्वं ते[]नाप्यनभिनन्दिता।
  साभूद्रामाश्रया भूयो नदीवोभयकूलभाक् ॥ ३५॥


  1. अथो.
  2. प्रतिपेदे.
  3. न तेनाप्यभिनन्दिता.