पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२५६

पुटमेतत् सुपुष्टितम्
( २५४ )
रघुवंशे

 ज्येष्ठेति ॥ पूर्व ज्येष्ठाभिगमनात्तेन लक्ष्मणेनाप्यनभिनन्दिता नाङ्गीकृता भूयो रामाश्रया सा राक्षसी । उभे कूले भजतीत्युभयकूलभाक् । नदीवाभूत् । सा हि यातायाताभ्यां पर्यायेण कूलद्वयगामिनी नदीसदृश्यभूदित्यर्थः ॥

  संरम्भं मैथिलीहासः क्ष[]णसौम्यां निनाय ताम् ।
  निवातस्तिमितां वेलां चन्द्रोदय इवोदधेः॥ ३६ ॥

 संरम्भमिति ॥ मैथिलीहासः क्षणं सौम्यां सौम्याकारां तां राक्षसीम् । निवातेन स्तिमितां निश्चलामुदधेर्वेलामम्बुविकृतिम् । अम्बुपूरमित्यर्थः ॥" अब्ध्यम्बुविकृतौ वेला" इत्यमरः ॥ चन्द्रोदय इव । संरम्भं संक्षोभं निनाय ॥

  फलमस्योपहासस्य सद्यः प्राप्स्यसि पश्य माम् ।
  मृ[]ग्याः परिभवो व्याघ्र्यामित्य[]वेहि त्वया कृ[]तम् ॥ ३७॥

 फलमिति ॥ श्लोकद्वयेनान्वयः ॥ अस्योपहासस्य फलं सद्यः संप्रत्येव प्राप्स्यसि । मां पश्य । त्वया । कर्त्र्या । कृतमुपहासरूपम् । करणम् । व्याघ्र्यां विषये मृग्याः। कर्त्र्याः । परिभव इत्यवेहि ॥

  इत्युक्त्वा मैथिलीं भर्तुर[]ङ्के नि[]विशतीं भयात् ।
  रूपं शूर्पणखा ना[]म्नः सदृशं प्रत्यपद्यत ॥ ३८॥

 इतीति । भयाद्भर्तुरङके निविशतीमालिङ्गन्तीं मैथिलीमित्युक्त्वा शूर्पणखा ना- म्नः सदृशम् । शूर्पाकारनखयुक्तमित्यर्थः । रूपमाकारं प्रत्यपद्यत स्वीचकार । अदर्शयदित्यर्थः॥

  लक्ष्मणः प्रथमं श्रुत्वा कोकिलाम[]ञ्जुवादिनीम् ।
  शिवाघोरस्व[]नां पश्चाद्बुबुधे विकृतेति ताम् ॥ ३९ ॥

 लक्ष्मण इति ॥ लक्ष्मणः प्रथमं कोकिलावन्मनञुवादिनीं पश्चाच्छिवावद्धोर- स्वनां तां शूर्पणखां श्रुत्वा । तस्याः स्वनं श्रुत्वेत्यर्थः ॥ सुस्वनः शङ्खः श्रूयत इ. तिवत्प्रयोगः ॥ विकृता मायाविनीति बुबुधे बुद्धवान् ॥ कर्तरि लिट् ॥

  पर्णशालामथ क्षिप्रं विकृ[१०]ष्टासिः प्रविश्य सः।
  वैरू[११]प्यपौनरुक्त्येन भीषणां तामयोजयत् ॥४०॥

 पर्णशालामिति ॥ अथ स लक्ष्मणो विकृष्टासिः कोशोदृतखङ्गः सन्क्षिप्रं

पर्णशालां प्रविश्य । भीषयतीति भीषणाम् ॥ नन्द्यादित्वाल्ल्युट् कर्तरि ॥ तां


  1. क्षणं सौम्याम्.
  2. मृगीपरिभवः.
  3. मृत्यवे हि.
  4. कृतः.
  5. अङ्कम्.
  6. निर्विशतीम्.
  7. नाम्ना.
  8. मञ्जुभाषिणीम्.
  9. स्वराम्.
  10. विवृतासिः; विधृतासिः.
  11. वैरूप्यं पुनरुक्तेन.