पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२५८

पुटमेतत् सुपुष्टितम्
( २५६ )
रघुवंशे

 एक इति ॥दाशरथी राम एकोऽद्वितीयः । यातुधानाः कामं सहस्रशः । सन्तीति शेषः । तैर्यातुधानैस्तु स राम आजौ ते यातुधाना यावन्तो यावत्संख्या- का एव तावांस्तावत्संख्याकश्च ददृशे ॥

  असज्जनेन काकुत्स्थः प्रयुक्तम[१]थ दुषणम् ।
  न चक्षमे शुभाचारः स दूषणमिवा[२]त्मनः॥ ४६ ।।

 असदिति ॥ अथ शुभाचारो रणे साधुचारी सहृत्तश्च स काकुत्स्थोऽसज्जनेन दुर्जनेन रक्षोजनेन च प्रयुक्तं प्रेषितमुच्चारितं च दूषणं दूषणाख्यं राक्षसमात्मनो दूषणं दोषमिव न चक्षमे न सेहे । प्रतिकर्तुं प्रवृत्त इत्यर्थः ॥

  तं शरैः प्रतिजग्राह खरत्रिशिरसौ च सः।
  क्रमशस्ते पुनस्तस्य चापात्सममिवोद्ययुः ॥४७॥

 तमिति ॥ स रामस्तं दूषणं खरत्रिशिरसौ च शरैः प्रतिजग्राह । प्रतिजहा- रेत्यर्थः । क्रमशो यथाक्रमम् । प्रयुक्ता अपीति शेषः । तस्य ते शराः पुनश्चापात्समं युगपदिवोद्ययुः । अतिलघुहस्त इति भावः ॥

  तैस्त्रयाणां शितैर्बा[३]णैर्यथा[४]पूर्वविशुद्धिभिः।
  आयुर्वेहातिगैः पीतं रुधिरं तु पतत्रिभिः॥ ४८॥

 तैरिति ॥ देहमतीत्य भित्त्वा गच्छन्तीति देहातिगाः । तैर्यथास्थिता पूर्वविशुद्ध्यर्थं अतिवेगेन दे क्ष्णैर्बाणैस्त्रयाणां खरादीनामायुः पीतं रुधिरं तु पतत्रिभिः पीतम् ॥

  तस्मिन्रामशरोत्कृत्ते बले महति रक्षसाम् ।
  [५]त्थितं ददृशेऽन्य[६]च्च कबन्धेभ्यो न किंचन ॥४९॥

 तस्मिन्निति ॥ तस्मिन्रामशरैरुत्कृत्ते छिन्ने महति रक्षसां बल उत्थितमुत्थान- क्रियाविशिष्टं प्राणिनां कबन्धेभ्यः शिरोहीनशरीरेभ्यः ॥ "कबन्धोऽस्त्री क्रि-युक्तमपमूर्धकलेवरम्" इत्यमरः ॥ अन्यच्चान्यत्किंचन न ददृशे ॥ कबन्धेभ्य इत्यत्र “ अन्यारात्-" इति पञ्चमी ॥ निःशेषं हतमित्यर्थः।

  सा बाणवर्षिणं रामं योधयित्वा सुरद्विषाम् ।
  अप्रबोधाय सुष्वाप गृध्रच्छाये वरूथिनी॥५०॥

 सेति ॥सा सुरद्विषां वरूथिनी सेना बाणवर्षिणं रामं योधयित्वा युद्धं कारयित्वा


  1. अपि.
  2. आत्मनि.
  3. शतैः.
  4. यथापूर्व विशुद्धिभिः.
  5. उच्छ्रितम्.
  6. अन्यत्र; अन्यत्तु; चान्यत्