पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२५९

पुटमेतत् सुपुष्टितम्
( २५७ )
द्वादशः सर्गः ।

गृध्राणां छाया गृध्रच्छायम् ॥ "छाया बाहुल्ये” इति क्लीबत्वम् ॥ तस्मिन्नप्रबोधायापुनर्बोधाय सुष्वाप । ममारेत्यर्थः । अत्र सुरतश्रान्तकान्तासमाधिर्ध्वन्यते ॥

  राघवास्त्रविदीर्णानां रावणं प्रति रक्षसाम् ।
  तेषां शूर्पणखैवैका दुष्प्रवृत्तिहराभवत् ॥ ५१ ॥

 राघवेति ॥ एका शूर्पवन्नखानि यस्याः सा शूर्पणखा ॥ “पूर्वपदात्संज्ञायाम्" इति णत्वम् । “नखमुखात्संज्ञायाम्" इति ङीप्प्रतिषेधः ॥ सैव रावणं प्रति राघवास्त्रैर्विदीर्णानां हतानां तेषां रक्षसां खरादीनां दुष्पवृत्तिं वार्तां हरति प्रापयतीति दुष्पवृत्तिहराभवत् ॥ “हरतेरनुद्यमनेऽच्" इत्यच्प्रत्ययः॥

  निग्रहात्स्वसुराप्तानां वधाच्च धनदानुजः।
  रामेण निहितं मेने पदं दशसु मूर्धसु ॥५२॥

 निग्रहादिति ॥ स्वसुः शूर्पणखाया निग्रहादङ्गच्छेदादाप्तानां बन्धूनां खरादीनां वधाच्च कारणाद्धनदानुजो रावणो रामेण दशसु मूर्धसु पदं पादं निहितं मेने॥

  रक्षसा मृगरूपेण वञ्चयित्या स राघवौ ।
  जहार सीतां पक्षीन्द्रप्रयासक्षणविघ्नितः॥५३॥

 रक्षसेति॥स रावणो मृगरूपेण रक्षसा मारीचेन राघवौ वञ्चयित्वा प्रतार्य पक्षीन्द्रस्य जटायुषः प्रयासेन युद्धरूपेण क्षणं विघ्नितः संजातविघ्नः सन्सीतां जहार ॥

  तौ सीतान्वेषिणौ गृधं लूनपक्षमपश्यताम् ।
  प्राणैर्दशरथप्रीतेरे[१]नृणं कण्ठवर्तिभिः ॥ ५४ ॥

 ताविति ॥ सीतान्वेषिणौ तौ राघवौ लूनपक्षं रावणेन छिन्नपक्षं कण्ठवर्तिभिः प्राणैर्दशरथप्रीतेर्दशरथसख्यस्यानृणमृणैर्विमुक्तं गृध्रं जटायुषमपश्यतां दृष्टवन्तौ ॥ दृशेर्लङि रूपम् ॥

  स रावणहृतां ताभ्यां वचसा[२]चष्ट मैथिलीम् ।
  आत्मनः सुमहत्कर्म व्रणैरावेद्य संस्थितः॥ ५५॥

 स इति ॥ स जटायू रावणहृतां मैथिलीं ताभ्यां रामलक्ष्मणाभ्याम् ॥ "क्रियाग्रहणमपि कर्तव्यम्" इति संप्रदानत्वाचतुर्थी ॥ वचसा वाग्वृत्त्याचष्ट । आत्मनः

सुमहत्कर्म युद्धरूपं व्रणैरावेद्य संस्थितो मृतः॥


  1. आनृण्यम्.
  2. आख्याय.