पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२६

पुटमेतत् सुपुष्टितम्
( २४ )
रघुवंशे

म् ॥ तद्राजत्वाद्बहुष्वणो लुक् ॥ दुरापे दुष्प्राप्येऽर्थे । सिद्धयस्त्वदधीनास्त्वदायत्ताः । इक्ष्वाकूणामिति शेषे षष्ठी । “न लोक-” इत्यादिना कृद्योगे षष्ठीनिषेधात् ॥

  इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः ।
  क्षणमात्रमृषिस्तस्थौ सुप्तमीन [१]इव ह्रदः॥७३॥

 इतीति ॥ इति राज्ञा विज्ञापित ऋषिर्ध्यानेन स्तिमिते लोचने यस्य ध्यानस्तिमितलोचनो निश्चलाक्षः सन्क्षणमात्रम् । सुप्तमीनो ह्रद इव । तस्थौ ।।

  सोऽपश्यत्प्रणिधानेन संततेः स्तम्भकारणम् ।
  भावितात्मा भुवो भर्तुरथैनं प्रत्यबोधयत् ॥ ७४ ।।

 स इति ॥ स मुनिः प्रणिधानेन चित्तैकाग्र्येण भावितात्मा शुद्धान्तःकरणो भुवो भर्तुर्नृपस्य संततेः स्तम्भकारणं संतानप्रतिबन्धकारणमपश्यत् ॥ अथानन्तरमेनं नृपं प्रत्यबोधयत् । स्वदृष्टं ज्ञापितवानित्यर्थः ॥ एनमिति “ गतिबुद्धि- ”इत्यादिनाणि कर्तुः कर्मत्वम् ॥

  पुरा शक्रमुपस्थाय तवोर्वीं प्रति यास्यतः ।
  आसीत्कल्पतरुच्छायामाश्रिता सुरभिः पथि ॥७५॥

 पुरोति॥ पुरा पूर्वं शक्रमिन्द्रमुपस्थाय संसेव्योर्वीं प्रति भुवमुद्दिश्य यास्यतो गमिष्यतस्तव पथि कल्पतरुच्छायामाश्रिता सुरभिः कामधेनुरासीत् । तत्र स्थितेत्यर्थः ॥

 ततः किमित्याह-

  धर्मलोपभयाद्राज्ञीमृतुस्नातामिमां स्मरन् ।
  प्रदक्षिणक्रियार्हायां तस्यां त्वं साधु नाचरः॥७६ ॥

 धर्मेति ॥ ऋतुः पुष्पम् । रज इति यावत् ॥ “ऋतुः स्त्रीकुसुमेऽपि च” इत्यमरः॥ ऋतुना निमित्तेन स्नातामिमां राज्ञीं सुदक्षिणां धर्मस्यर्त्वभिगमनलक्षणस्य लोपाद्भ्रंशाद्यद्भयं तस्मात्स्मरन्ध्यायन् ॥ “ मृदङ्गं दैवतं विप्रं घृतं मधु चतुष्पथम् । प्रदक्षिणानि कुर्वीत विज्ञातांश्च वनस्पतीन् ॥” इति शास्त्रात्प्रदक्षिणक्रियार्हायां प्रदक्षिणकरणयोग्यायां तस्यां धेन्वां त्वं साधु प्रदक्षिणादिसत्कारं नाचरो नाचरितवानसि । व्यासक्ता हि विस्मरन्तीति भावः ॥ ऋतुकालाभिगमने मनुः- .“ऋतुकालाभिगामी स्यात्स्वदारनिरतः सदा” इति ॥ अकरणे दोषमाह पराशर:--"ऋतुस्नातां तु यो भार्यां स्वस्थः सन्नोपगच्छति। बालगोघ्नापराधेन विध्यते नात्र संशयः” इति ॥




  1. यथा.