पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२६०

पुटमेतत् सुपुष्टितम्
( २५८ )
रघुवंशे

  तयोस्तस्मिन्नवीभूतपितृव्यापत्तिशोक[१]योः ।
  पितरीवा[२]ग्निसंस्कारात्परा ववृतिरे क्रियाः ॥५६॥

 तयोरिति ॥ व्यापत्तिर्मरणम् । नवीभूतः पितृव्यापत्तिशोको ययोस्तौ तयो राघवयोस्तस्मिन्गृध्रे पितरीवाग्निसंस्कारादग्निसंस्कारमारभ्य परा उत्तराः क्रिया ववृतिरेऽवर्तन्त । तस्य पितृवदौर्ध्वदेहिकं चक्रतुरियर्थः ॥

  वधनिर्धूतशापस्य कबन्धस्योपदेशतः ।
  मुमूर्छ सख्यं रामस्य समानव्यसने हरौ ॥ ५७ ॥

 वधेति॥ वधेन रामकृतेन निर्धूतशापस्य देवभुवं गतस्य कबन्धस्य रक्षोविशेषस्योपदेशतो रामस्य समानव्यसने समानापदि । सख्यार्थिनीत्यर्थः । हरौ कपौ सुग्रीवे ॥ “शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु" इत्यमरः ॥ सख्यं मुमूर्छ ववृधे॥

  स हत्वा वालिनं वी[३]रस्तत्पदे चिरकाङ्क्षिते।
  धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयत् ॥ ५८ ॥

 स इति ॥ वीरः स रामो वालिनं सुग्रीवाग्रजं हत्वा चिरकाङ्क्षिते तत्पदे वालिस्थाने । धातोः स्थान आदेशमिव । आदेशभूतं धावन्तरमिवेत्यर्थः । सुग्रीवं संन्यवेशयत्स्थापितवान् ॥ यथा “अस्तेर्भूः" इसस्तिधातोः स्थान आदेशो भूधातुरस्तिकार्यमशेषं समभिधत्ते तद्वदिति भावः। आदेशो नाम शब्दान्तरस्य स्थाने विधीयमानं शब्दान्तरमभिधीयते ॥

  इतस्ततश्च्[४] वैदेहीमन्वेष्टुं भ[५]र्तृचोदिताः।
  कपयश्चेरुरा[६]र्तस्य रामस्येव मनोरथाः॥ ५९ ॥

 इतस्ततश्चेति ॥ वैदेहीमन्वेष्टुं मार्गितुं भर्त्रा सुग्रीवेण चोदिताः प्रयुक्ताः कपयो हनुमत्प्रमुखाः । आर्तस्य विरहातुरस्य रामस्य मनोरथाः कामा इव । इतस्ततश्चेरुर्नानादेशेषु बभ्रमुश्च ॥

  प्रवृत्तावुपलब्धायां तस्याः संपातिदर्शनात् ।
  मारुतिः सागरं तीर्णः संसारमिव निर्ममः॥६०॥

 प्रवृत्ताविति ॥ संपातिर्नाम जटायुषो ज्यायान्भ्राता। तस्य दर्शनात्। तन्मुखादिति भावः। तस्याः सीतायाः प्रवृत्तौ वार्तायाम्॥"वार्ता प्रवृत्तिर्वृत्तान्तः" इत्यमरः॥

उपलब्धायां ज्ञातायां सत्याम् । मारुतस्यापत्यं पुमान्मारुतिः। हनुमान्सागरम् । ममे-


  1. दुःखयोः
  2. अग्निसंस्कारात्परा निवृतिरे क्रियाः; अग्निसंस्कारात्पुनराववृते क्रिया:;
    अग्निसंस्कारानन्तराववृते क्रियाः.
  3. वीरम्.
  4. अथ.
  5. भर्तृनोदिताः.
  6. उत्कस्य.