त्येतदव्ययं ममतावाचि । तद्रहितो निर्ममो निःस्पृहः संसारमविद्याबन्धनमिव । तीर्णस्ततार ॥ तरतेः कर्तरि क्तः॥
दृष्टा विचिन्वता तेन लङ्कायां राक्षसीवृता।
जानकी विषवल्लीभिः परीतेव महौषधिः॥ ६१ ॥
दृष्टेति ॥ लङ्कायां रावणराजधान्यां विचिन्वता मृगयमाणेन तेन मारुतिना राक्षसीभिर्वृता जानकी । विषवल्लीभिः परीता परिवृता महौषधिः संजीविनीलतेव । दृष्टा॥
तस्या इति ॥ कपिर्हनुमान्भर्तू रामस्य संबन्ध्यभिज्ञानं प्रत्यभिज्ञानसाधकमङ्गुलीयमूर्मिकाम् ॥ “अङ्गुलीयकमूर्मिका" इत्यमरः ॥ “जिह्वामूलाङ्गुलेश्छः" इति छप्रत्ययः॥ तस्यै जानक्यै ददौ ॥ किंविधमङ्गुलीयम् । अनुष्णैः शीतलैस्तस्या आनन्दाश्रुबिन्दुभिः प्रत्युद्गतमिव स्थितम् । भर्त्रभिज्ञानदर्शनादानन्दबाष्पो जात इत्यर्थः।।
निर्वाप्येति ॥ स कपिः । प्रियस्य रामस्य संदेशैर्वाचिकैः सीतां निर्वाप्य सुखयित्वा । अक्षस्य रावणकुमारस्य वधेनोद्धतो दृप्तः सन् । क्षणं सोढोऽरेरिन्द्रजितः । कर्तुः । निग्रहो बाधो ब्रह्मास्त्रबन्धनरूपो येन स तथोक्तः सन् । लङ्कां पुरीं ददाह भस्मीचकार ॥
प्रत्यभिज्ञानरत्नं च रामायादर्शयत्कृती।
हृदयं स्वयमायातं वैदेह्या इव मूर्तिमत् ।। ६४ ॥
प्रत्यभीति ॥ कृती कृतकृत्यः कपिः स्वयमायातं मूर्तिमद्वैदेह्या हृदयमिव स्थितं तस्या एव प्रत्यभिज्ञानरत्नं च रामायादर्शयत् ॥
स प्राप हृदयन्यस्तमणिस्पर्शनिमीलितः।
अपयोधरसं[५]सर्गा प्रियालिङ्गननिर्वृतिम् ॥६५॥
स इति ॥ हृदये वक्षसि न्यस्तस्य धृतस्य मणेरभिज्ञानरत्नस्य । स्पर्शेन निमीलितो मोहितः स रामोऽविद्यमानः पयोधरसंसर्गः स्तनस्पर्शो यस्यास्तां
तथाभूतां प्रियाया आलिङ्गनेन या निर्वृतिरानन्दस्तां प्राप ॥