तेनेति ॥ रामस्तेन पथा सेतुमार्गेणोत्तीर्य । सागरमिति शेषः । पिङ्गलैः सुवर्णवर्णैरतएव द्वितीयं हेमप्राकारं कुर्वद्भिरिव स्थितैर्वानरैर्लङ्कां रोधयामास ॥
रण इति ॥ तत्र लङ्कायां प्लवगानां रक्षसां च भीमो भयंकरो दिग्विजृम्भितं काकुत्स्थपौलस्त्ययो रामरावणयोर्जयघोषणं जयशब्दो यस्मिन्स तथोक्तो रणःघोरः. प्रववृते प्रवृत्तः । “अस्त्रियां समरानीकरणाः कलहविग्रहौ" इत्यमरः ॥
पादपाविद्धपरिघः शिलानिष्पिष्टमुद्गरः।
अतिशस्त्रनखन्यासः शैलरु[३]ग्णमतंगजः॥७३॥
पादपेति ॥ किंविधो रणः । पादपैर्वृक्षैराविद्धा भग्नाः परिघा लोहबद्धकाष्ठानि यस्मिन्स तथोक्तः॥ “परिघः परिघातनः" इत्यमरः॥ शिलाभिर्निष्पिष्टाश्चूर्णिता मुद्गरा अयोधना यस्मिन्स तथोक्तः॥"द्रुघणो मुद्रघनौ” इत्यमरः॥अतिशस्त्राः शस्त्राण्यतिक्रान्ता नखन्यासा यस्मिन्स तथोक्तः। शैलैरुग्णा भग्ना मतंगजा यस्मिन्स तथोक्तः।।
अथ रामशिरश्छेददर्शनोद्भ्रान्तचेत[४]नाम् ।
सीतां मायेति शंसन्ती त्रिजटा समजीवयत् ॥ ७४ ॥
अथेति ॥ अथानन्तरम् । छिद्यत इति छेदः खण्डः। शिर एव छेद इति विग्रहः। रामशिरश्छेदस्य विद्युज्जिह्वाख्यराक्षसमायानिर्मितस्य दर्शनेनोग्भ्रान्तचेतनां गतसंज्ञां सीतां त्रिजटा नाम काचित्सीतापक्षपातिनी राक्षसी मायाकल्पितं नत्वेतत्सत्यमिति शंसन्ती ब्रुवाणा ॥ "शप्श्यनोर्नित्यम्" इति नित्यं नुमागमः॥ समजीवयत् ॥
कामं जीवति मे नाथ इति सा विजहौ शुचम् ।
प्राङ्मत्वा सत्यमस्यान्तं जीवितास्मीति लज्जिता ।।७५॥
काममिति ॥सा सीता मे नाथो जीवतीति हेतोः शुचं शोकं कामं विजहौ । किंतु प्राक्पूर्वमस्य नाथस्यान्तं नाशं सत्यं यथार्थं मत्वा जीविता जीवितवत्यस्मीति हेतोर्लज्जिता लज्जावती ॥ कर्तरि क्तः॥ दुःखादपि दुःसहो लज्जाभर इति भावः ॥