गरुडेति ॥ गरुडस्तार्क्ष्यः। तस्यापातेनागमनेन विश्लिष्टं मेघनादस्येन्द्रजितोऽस्त्रेण नागपाशेन बन्धनं यस्मिन्स तथोक्तः क्षणक्लेशो दाशरथ्यो रामलक्ष्मणयोः स्वप्नवृत्तः स्वप्नावस्थायां भूत इवाभवत् ॥
ततो बिभेद पौलस्त्यः शक्त्या वक्षसि लक्ष्मणम् ।
रामस्त्वनाहतोऽप्यासीद्विदीर्णहृदयः शुचा ॥ ७७ ॥
तत इति ॥ ततः पौलस्त्यो रावणः शक्त्या कासूनामकेनायुधेन ॥ "कासूसामर्थ्ययोः शक्तिः" इत्यमरः॥ लक्ष्मणं वक्षसि बिभेद विदारयामास ॥ रामस्त्वनाहतोऽप्यहतोऽपि शुचा शोकेन विदीर्णहृदय आसीत् ॥
स मारुतिसमानीतमहौषधिह[१]तव्यथः ।
लङ्कास्त्रीणां पुनश्चक्रे विलापाचार्यकं शरैः ॥ ७८ ॥
स इति ॥ स लक्ष्मणो मारुतिना मरुत्सुतेन हनुमता समानीतया महौषध्या संजीविन्या हतव्यथः सन्पुनः शरैर्लङ्कास्त्रीणां विलापे परिदेवने ॥ “विलापः परिदेवनम्" इत्यमरः ॥ आचार्यकमाचार्यकर्म ॥ “योपधाद्गुरूपोत्तमाहद्वुञ्" इति वुञ् ॥ चक्रे ॥ पुनरपि राक्षसाञ्जघानेति व्यज्यते ॥
स[२] नादं मेघनादस्य धनुश्चन्द्रायुधप्रभम् ।
मेघस्येव शरत्कालो न किंचित्पर्यशेषयत् ॥ ७९ ॥
स इति ॥ स लक्ष्मणः । शरत्कालो मेघस्येव । मेघनादस्येन्द्रजितो नादं सिंहनादम् । अन्यत्र गर्जितं च । इन्द्रायुधप्रभं शक्रधनुःप्रभं धनुश्च किंचिदल्पमपि न पर्यशेषयन्नावशेषितवान् । तमवधीदित्यर्थः॥
कुम्भकर्णः कपीन्द्रेण तुल्यावस्थः स्वसुः कृतः।
रुरोध रामं शृङ्गीव टङ्कच्छिन्नमनःशिलः ॥ ८० ॥
कुम्भकर्ण इति ॥ कपीन्द्रेण सुग्रीवेण स्वसुः शूर्पणखायास्तुल्यावस्थो नासाकर्णच्छेदेन सदृशः कृतः कुम्भकर्णष्टङ्केन शिलाभेदकशस्त्रेण छिन्ना मनःशिला रक्तवर्णधातुविशेषो यस्य स तथोक्तः॥ "टङ्कः पाषाणभेदनः" इति । "धातुमनःशिलाद्यद्रेः" इति चामरः ॥ शृङ्गी शिखरीव । रामं रुरोध ॥
७९-८० श्लोकयोर्मध्ये इमौ श्लोकौ दृश्येते--
क्लेशेन महती निद्रा त्याजितं रणदुर्जयम् ।
रावणः प्रेषयामास युद्धायानुजमात्मनः॥
स जघान तदादेशात्कपीनुग्राननेकशः ।
विवेश च पुरीं लङ्कां समादाय हरीश्वरम् ।