पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२६५

पुटमेतत् सुपुष्टितम्
( २६३ )
द्वादशः सर्गः ।

  अकाले बोधितो भ्रात्रा प्रियस्वप्नो वृथा भ[१]वान् ।
  रामेषुभिरितीवासौ दीर्घनिद्रां प्रवेशितः ॥ ८१ ॥

 अकाल इति ॥ पियस्वप्न इष्टनिद्रोऽनुजो भवान्वृथा भ्रात्रा रावणेनाकाले बोधित इतीवासौ कुम्भकर्णो रामेषुभी रामबाणैर्दीर्घनिद्रां मरणं प्रवेशितो गमितः॥ यथा लोकेष्विष्टवस्तुविनाशदुःखितस्य ततोऽपि भूयिष्ठमुपपाद्यते तद्वदिति भावः॥

  इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु ।
  रजांसि समरोत्थानि तच्छोणितनदीष्विव ॥ ८२ ॥

 इतराणीति ॥ इतराणि रक्षांस्यपि वानरकोटिषु । समरोत्थानि रजांसि तेषां रक्षसां शोणितनदीषु रक्तप्रवाहेष्विव । पेतुः । निपत्य मृतानीत्यर्थः॥

  निर्ययावथ पौलस्त्यः पुनर्युद्धाय मन्दिरात् ।
  अरावणमरामं वा जगदद्येति निश्चि[२]तः॥ ८३ ॥

 निर्ययाविति ॥ अथ पौलस्त्यो रावणः । अद्य जगदरावणं रावणशून्यमरामं रामशून्यं वा भवेदिति निश्चितो निश्चितवान् ॥ कर्तरि क्तः ॥ विजयमरणयोरन्यतरनिश्चयवान्पुनर्युद्धाय मन्दिरान्निर्ययौ निर्जगाम ॥

  रामं पदातिमालोक्य लङ्केशं च वरूथिनम् ।
  हरियुग्यं रथं तस्मै प्रजिघाय पुरंदरः॥ ८४ ॥

 राममिति॥ पादाभ्यामततीति पदातिः। तं पादचारिणं रामम् । वरूथो रथ- गुप्तिः ॥ “रथगुप्तिर्वरूथो ना" इत्यमरः ॥ अत्र वरूथेन रथोलक्ष्यते ॥ वरूथिनं रथिनं लङ्केशं चालोक्य पुरंदर इन्द्रः । युगं वहन्तीति युग्या रथाश्वाः ॥ “तद्वहति रथयुगप्रासङ्गम्" इति यत्प्रत्ययः ॥ हरियुग्यं कपिलवर्णाश्वम् ॥ “शुकाहिकपिभेकेषु हरिना कपिले त्रिषु" इत्यमरः ॥ रथं तस्मै रामाय प्रजिघाय प्रहितवान् ॥

  तमाधूतध्वजपटं व्योमगङ्गोर्मिवायुभिः ।
  देवसूतभुजालम्बी जैत्रमध्यास्त राघवः ॥ ८५ ॥

 तमिति ॥राघवो व्योमगङ्गोर्मिवायुभिराधूतध्वजपटम् । मार्गवशादिति भा- वः । जेतैव जैत्री जयनशीलः । तं जैत्रम् ॥ "जेतृशब्दात्तृन्नन्तात् “प्रज्ञादिभ्यश्च" इति स्वार्थेऽण्प्रत्ययः॥ तं रथं देवसूतभुजालम्बी मातलिहस्तावलम्बः

सन्नध्यास्ताधिष्ठितवान् ॥ आसेर्लङ् ॥


  1. अनुजः.
  2. निश्चितम्.