पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२६७

पुटमेतत् सुपुष्टितम्
( २६५ )
द्वादशः सर्गः ।

 तस्येति ॥ अधिकक्रोधः पौलस्यः स्फुरति स्पन्दमानेऽतएव सीतासंगमशंसिनि तस्य रामस्य सव्य इतरो यस्मात्सव्येतरे दक्षिणे ॥ “न बहुव्रीहौ" इतीतरशब्दस्य सर्वनामसंज्ञाप्रतिषेधः ॥ भुजे शरं निचखान निखातवान् ॥

  रावणस्यापि रामास्तो भित्त्वा हृदयमाशुगः।
  विवेश भुवमाख्यातुमुरगेभ्य इव प्रियम् ॥ ९१ ॥

 रावणस्येति ॥ रामेणास्तः क्षिप्त आशुगो बाणः॥ विश्रवसोऽपत्यं पुमान्रावणः। विश्रवःशब्दादपत्येऽर्थेऽण्प्रत्यये सति “ विश्रवसो विश्रवणरवणौ” इति रवणादेशः ॥ तस्य रावणस्यापि हृदयं वक्षो भित्त्वा विदार्य । उरगेभ्यः पातालवासिभ्यः प्रियमाख्यातुमिव । भुवं विवेश ॥

  वचसै[१]व तयोर्वाक्यमस्त्रमस्त्रेण निघ्नतोः ।
  अन्योन्यजयसंरम्भो ववृधे वादिनोरिव ॥ ९२ ॥

 वचसेति ॥ वाक्यं वचसैवास्त्रमस्त्रेण निघ्नतोः प्रतिकुर्वतोस्तयो रामरावणयोः। वादिनोः कथकयोरिव । अन्योन्यविषये जयसंरम्भो ववृधे ।।

  विक्रमव्यतिहारेण सामान्याभूद्वयोरपि ।
  जयश्रीरन्तरा वेदिर्मत्तवारणयोरिव ॥ ९३ ।।

 विक्रमेति ॥ जयश्रीर्विक्रमस्य व्यतिहारेण पर्यायक्रमेण तयोर्द्वयोरपि । अन्तरा मध्ये ॥ अव्ययमेतत् ॥ वेदिर्वेद्याकारा भित्तिर्मत्तवारणयोरिव । सामान्या साधारणाभूत् । न त्वन्यतरनियतेत्यर्थः ॥ अत्र मत्तवारणयोरित्यत्र द्वयोरित्यत्र च "अनरान्तरेणयुक्ते" इति द्वितीया न भवति । अन्तराशब्दस्योक्तरीत्यान्यत्रान्वयात् ॥ मध्ये कापि भित्तिं कृत्वा गजौ योधयन्तीति प्रसिद्धिः ॥

  कृतप्रतिकृतप्रीतैस्तयोर्मुक्तां सुरासुरैः ।
  [२]रस्परशरव्राताः पुष्पवृष्टिं न सेहिरे ॥ ९४ ॥

 कृतेति । स्वयमस्त्रप्रयोगः कृतं प्रतिकृतं परकृतप्रतीकारस्ताभ्यां प्रीतैः सुरासुरैर्यथासंख्यं तयो रामरावणयोर्मुक्तां पुष्पवृष्टिम् । द्वयीमिति शेषः । परस्परं शरव्राता न सेहिरे ॥ अहमेवालं किं त्वयेति चान्तराल एवेतरेतरबाणदृष्टिरितरेतरपु- ष्पवृष्टिमवारयदित्यर्थः॥

  अयःशङ्कुचितां रक्षः शतघ्नीमथ शत्रवे ।
  हृतां वैवस्वतस्येव कूटशाल्मलिमक्षिपत् ॥ ९५ ॥

 भय इति ॥ अथ रक्षो रावणोऽयसः शङ्कुभिः कीलैश्चितां कीणां शतघ्नीं लो-

३४


  1. इव।
  2. परस्परं शरव्राता:.