बालेति॥पतिष्यत आसन्नपातस्य रक्षःकायस्य रावणकलेवरस्य। छिद्यन्त इति छेदाः खण्डाः । कण्ठानां ये छेदास्तेषां परंपरा पङ्क्तिः । वीचिभिर्भिन्ना नानाकृताप्सु बालार्कस्य प्रतिमा प्रतिबिम्बमिव । रराज । अर्कस्य बालविशेषणमारुण्यसिद्ध्यर्थमिति भावः॥
मरुतां पश्यतां तस्य शिरांसि पतितान्यपि ।
मनो नातिविशश्वास पुनःसंधानशङ्किनाम् ॥ १०१ ॥
मरुतामिति॥ पतितानि तस्य रावणस्य शिरांसि पश्यतामपि पुनःसंधानशङ्किनाम् । पूर्वं तथादर्शनादिति भावः । मरुताममराणाम् ॥ "मरुतौ पवनामरौ" इत्यमरः ॥ मनो नातिविशश्वासातिविश्वासं न प्राप ।
अथ मदगुरुपक्षैर्लोकपालद्विपाना-
मनुगतमलिवृन्दैर्गण्डभित्तीर्विहाय ।
उपनतमणिबन्धे मूर्ध्नि पौलस्त्यशत्रोः
सुरभि सुरविमुक्तं पुष्पवर्षं पपात ॥ १०२ ॥
अथेति ॥ अथ मदेन गजगण्डसंचारसंक्रान्तेन गुरुपक्षैर्भारायमाणपक्षैरलिवृन्दैर्लोकपालद्विपानामैरावतादीनां गगनवर्तिनां गण्डभित्तीर्विहायानुगतमनुद्रुतं सुरभि सुगन्धि ॥ “सुरभिश्चम्पके स्वणे जातीफलवसन्तयोः । गन्धोपले सौरभेय्यां सल्लकीमातृभेदयोः । सुगन्धौ च मनोज्ञे च वाच्यवत्सुरभि स्मृतम्" इति विश्वः॥ सुरविमुक्तं पुष्पवर्षमुपनत आसन्नो मणिबन्धो राज्याभिषेकसमये भावी यस्य तस्मिन्पौलस्त्यशत्रो रामस्य मूर्ध्नि पपात । इदमेव राज्याभिषेकसूचकमिति भावः।।
यन्ता हरेः सपदि संहृतकार्मुकज्य-
मापृच्छ्य राघवमनुष्ठितदेवकार्यम् ।
नामाङ्करावणशराङ्कितकेतुयष्टि-
मूर्ध्वं रथं हरिसहस्रयु[१]जं निनाय ॥ १०३ ॥
यन्तेति ॥ हरेरिन्द्रस्य यन्ता मातलिः सपदि संहृतकार्मुकज्यमनुष्ठितं देवकार्यं रावणवधरूपं येन तं राघवमापृच्छ्य साधु यामीत्यामन्त्र्य । नामाङ्कैर्नामाक्षरचिह्नै रावणशरैरङ्किता चिह्निता केतुयष्टिर्ध्वजदण्डो यस्य तम् । हरीणां वाजिनां सहस्रेण युज्यत इति हरिसहस्रयुक् । तम् ॥ " यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु ।
हरिः" इत्युभयत्राप्यमरः ॥ रथमूर्ध्वं निनाय नीतवान् ।
- ↑ युतम्.