पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२७०

पुटमेतत् सुपुष्टितम्
( २६८ )
रघुवंशे

  रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रिया
   प्रियसुहृदि विभीषणे संग[]मय्य श्रियं वैरिणः ।
  रविसुतसहितेन तेनानुयातः ससौमित्रिणा
   भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम् ॥ १०४ ॥

 रघुपतिरिति ॥ रघुपतिरपि जातवेदस्यग्नौ विशुद्धां जातशुद्धिं प्रियां सीतां प्रगृह्य स्वीकृत्य । प्रियसुहृदि विभीषणे वैरिणो रावणस्य श्रियं राज्यलक्ष्मी संगमय्य संगतां कृत्वा ॥ गमेर्ण्यन्ताल्ल्यप्प्रत्ययः "मितां ह्रस्वः" इति ह्रस्वः । “ल्यपि लघुपूर्वात् " इति णेरयादेशः ॥ रविसुतसहितेन सुग्रीवयुक्तेन ससौमित्रिणा सलक्ष्मणेन तेन विभीषणेनानुयातोऽनुगतः सन् ॥ विमानं रत्नमिव विमानरत्नमित्युपमितसमासः ॥ भुजविजितं यद्विमानरत्नं पुष्पकं तदारूढः सन् । पुरीमयोध्यां प्रतस्थे ॥ “समवप्रविभ्यः स्थः" इत्यात्मनेपदम् ॥ अत्र प्रस्थानक्रियाया अकर्मकत्वेऽपि तदङ्गभूतोद्देशक्रियापेक्षया सकर्मकत्वम् । अस्ति च धातूनां क्रियान्तरोपसजनकस्वार्थाभिधायकत्वम् । यथा “कुसूलान्पचति" इत्यादावादानक्रियागर्भ: पाको विधीयत इति ॥


इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
रावणवधो नाम द्वादशः सर्गः ।


त्रयोदशः सर्गः ।


   त्रैलोक्यशल्योद्धरणाय सिन्धोश्चकार बन्धं मरणं रिपूणाम् ।
   पुण्यप्रणामं भुवनाभिरामं रामं विरामं विपदामुपासे ॥

  अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः।
  रत्नाकरं वीक्ष्य मिथःस जायां रामाभिधानो हरिरित्युवाच ॥ १ ॥

 अथेति ॥ अथ प्रस्थानानन्तरम् । जानातीति ज्ञः ॥ “इगुपध-" इत्यादिना कप्रत्ययः॥ गुणानां ज्ञो गुणज्ञः । रत्नाकरादिवर्ण्यैश्वर्यगुणाभिज्ञ इत्यर्थः । स रामाभिधानो हरिर्विष्णुः शब्दो गुणो यस्य तच्छब्दगुणमात्मनः स्वस्य पदं विष्णुपदम् । आकाशमित्यर्थः ॥ "वियद्विष्णुपदम्" इत्यमरः॥"शब्दगुणमाकाशम्" इति तार्किकाः॥ विमानेन पुष्पकेण विगाहमानः सन् । रत्नाकरं वीक्ष्य मिथो


  1. संक्रमय्य.