पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२७४

पुटमेतत् सुपुष्टितम्
( २७२ )
रघुवंशे

  प्रवृत्तमात्रेण पयांसि पातुमावर्तवेगाद्बमता घनेन ।
  आभाति भूयिष्ठम[१]यं समुद्रः प्रमथ्यमानो गिरिणेव भूयः ॥१४॥

 प्रवृत्तेति ॥पयांसि पातुं प्रवृत्त एव प्रवृत्तमात्रो न तु पीतवांस्तेनावर्तवेगात् ॥ "स्यादावर्तोऽम्भसां भ्रमः" इत्यमरः॥ भ्रमता घनेनायं समुद्रो भूयः पुनरपि गिरिणा मन्दरेण प्रमथ्यमान इव भूयिष्ठमत्यन्तमाभाति ॥

  दूरादयश्चक्रनिभस्य तन्वी तमालतालीवनराजिनीला ।
  आभाति वेला लवणाम्बुराशेर्धारानिबध्देव कलङ्करेखा[२] ॥१५॥

 दूरादिति ॥ अयश्चक्रानिभस्य लवणाम्बुराशेर्दूरात्तन्व्यत्वेनावभासमाना तमालतालीवनराजिभिनीला वेला तीरभूमिर्धारानिबद्धा चक्राश्रिता कलङ्करेखा मालिन्यरेखेव । आभाति ॥ “मालिन्यरेखां तु कलङ्कमाहुः" इति दण्डी ॥

  वेलानिलः केतकरेणुभिस्ते संभावयत्याननमायताक्षि ।
  मामक्षमं मण्डनकालहानेर्वेत्तीव बिम्बाधरबद्धतृष्णम् ॥ १६ ॥

 वेलेति ॥ हे आयताक्षि ॥ “वेला स्यात्तीरनीरयोः" इति विश्वः॥ वेलानिलः केतकरेणुभिस्त आननं संभावयति ॥ किमर्थमित्यपेक्षायामुत्प्रेक्ष्यते-बिम्बाधरे बद्धतृष्णं मां मण्डनेनाभरणक्रियया कालहानिर्विलम्बस्तस्या अक्षममसहमानम् ॥ कर्मणि षष्ठी ॥ कालहानिमसहमानं वेत्तीव वेत्ति किम् । नो चेत्कथं संभावयेदित्यर्थः॥

  एते वयं सैकतभिन्नशुक्तिपर्यस्तमुक्तापटलं पयोधेः ।
  प्राप्ता मुहूर्तेन विमानवेगात्कूलं फलावर्जितपूगमालम् ॥ १७ ॥

 एत इति ॥ एते वयं सैकतेषु भिन्नाभिः स्फुटिताभिः शुक्तिभिः पर्यस्तानि परितः क्षिप्तानि मुक्तानां पटलानि यस्मिंस्तत्तथोक्तं फलैरार्वजिता आनमिता पूगमाला यस्मिस्तत्पयोधेः कूलं विमानवेगान्मुहूर्तेन प्राप्ताः ॥

  कुरुष्व तावत्करभोरु पश्चान्मार्गे मृगप्रेक्षिणि दृष्टिपातम् ।
  एषा विदूरोभवतः समुद्रात्सकानना नि[३]ष्पततीव भूमिः।। १८॥

 कुरुष्वेति ॥ “मणिवन्धादाकनिष्ठ करस्य करभो बहिः” इत्यमरः ॥ करभ इवोरू यस्याः सा करभोरूः ॥ “ऊरुत्तरपदादौपम्ये” इत्यूङ् ॥ तस्याः संबुद्धिर्हे करभोरु । मृगवत्प्रेक्षत इति विग्रहः।हे मृगप्रेक्षिणि । तावत्पश्चान्मार्गे लङ्घिताध्वनि दृष्टिपातं कुरुष्व । एषा सकानना भूमिर्विदूरीभवतः समुद्रान्निष्पतति निष्क्रामतीव ॥

विदूरशब्दाद्विशेष्यनिघ्नाच्च्विः॥


  1. इतः.
  2. लेखा.
  3. निःसरति.