पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२७५

पुटमेतत् सुपुष्टितम्
( २७३ )
त्रयोदशः सर्गः ।

  क्वचित्पथा संचरते सुराणां कचिद्धनानां प[]ततां क्वचिच्च ।
  यथाविधो मे मनसोऽभिलाषः प्रवर्तते पश्य तथा विमानम् ॥१९॥

 क्वचिदिति ॥ हे देवि, विमानं पुष्पकं मे मनसोऽभिलाषो यथाविधस्तथा प्रवर्तते पश्य ॥ क्वचित्सुराणां पथा संचरते । क्वचिद्धनानां क्वचित्पततां पक्षिणां च पथा संचरते ॥ “ समस्तृतीयायुक्तात्" इति संपूर्वाच्चरतेरात्मनेपदम् ॥

  असौ म[]हेन्द्रद्विपदानगन्धिस्त्रिमार्गगावीचिविमर्दशीतः।
  आकाशवायुर्दिनयौवनोत्थानाचामति स्वेदलवान्मुखे ते॥२०॥

 असाविति॥ महेन्द्रद्विपदानगन्धिरैरावतमदगन्धिः। त्रिभिर्मार्गैर्गच्छतीति त्रिमार्गगा गङ्गा ॥ “तद्धितार्थ-" इत्यादिनोत्तरपदसमासः॥ तस्या वीचीनां विमर्दैन संपर्केण शीतोऽसावाकाशवायुर्दिनयौवनोत्थान्मध्याह्नसंभवांस्ते मुखे स्वेदलवानाचामति हरति । अनेन सुरपथसंचारो दर्शितः॥

  करेण वातायनलम्बितेन स्पृष्टस्त्वया चण्डि कुतूहलिन्या ।
  आमुञ्चतीवाभरणं द्वितीयमुद्भिन्नविद्युद्वलयो घनस्ते ॥ २१ ॥

 करेणेति ॥ हे चण्डि कोपने ॥“चण्डस्त्वत्यन्तकोपनः" इत्यमरः॥ कुतूहलिन्या विनोदार्थिन्या त्वया । कर्त्र्या । वातायने गवाक्षे लम्बितेनावस्रंसितेन करेण स्पृष्ट उद्भिन्नवियुद्वलयो घनस्ते द्वितीयमाभरणं वलयमामुञ्चतीवार्पयतीव ॥ चण्डीत्यासनेन कोपनशीलत्वाद्भीतः क्षिप्रं त्वां मुञ्चति मेघ इति व्यज्यते ॥

  अमी जनस्थानमपोढविघ्नं मत्वा समारब्धनवोटजानि ।
  अध्यासते चीरभृतो यथास्वं चिरोज्झितान्याश्रममण्डलानि॥२२॥

 अमी इति ॥ अमी चीरभृतस्तापसा जनस्थानमपोढविघ्नमपास्तविघ्नं मत्वा ज्ञात्वा समारब्धा नवा उटजाः पर्णशाला येषु तानि ॥ “पर्णशालोटजोऽस्त्रियाम्" इत्यमरः ॥ चिरोज्झितानि । राक्षसभयादित्यर्थः । आश्रममण्डलान्याश्रमविभागान्यथास्वं स्वं स्वमनतिक्रम्याध्यासतेऽतिष्ठन्ति ।

  सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्याम् ।
  अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ॥ २३ ॥

 सैषेति ॥ सा पूर्वानुभूता स्थल्येषा । दृश्यत इत्यर्थः । यत्र स्थल्यां त्वां विचिन्वतान्विष्यता मया । त्वच्चरणारविन्देन यो विश्लेषो वियोगस्तेन यद्दुःखं तस्मा-


३५


  1. मरुताम्.
  2. महेन्द्रद्दिपदानगन्धो; सुरेन्द्रद्विषदानगन्धो.