पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२७६

पुटमेतत् सुपुष्टितम्
( २७४ )
रघुवंशे

दिव बद्धमौनं निःशब्दस् । उर्व्यां भ्रष्टमेकं नूपुरं मजीरः ॥ “ मञ्जीरो नूपुरोऽस्त्रियाम्" इत्यमरः ॥ अदृश्यत दृष्टम् ॥ हेतूत्प्रेक्षा ।

  त्वं रक्षसा भीरु यतोऽपनीता तं मार्गमेताः कृपया लता मे[१]
  अदर्शयन्वक्तुमशक्नुवत्यः शाखाभिरावर्जितपल्लवाभिः ॥२४॥

 त्वमिति ॥ हे भीरु भयशीले ॥ “ऊङुतः" इत्यूङ् । ततो नदीत्वात्संबुद्धौ ह्रस्वः॥ त्वं रक्षसा रावणेन यतो येन मार्गेण ॥ सार्वविभक्तिकस्तसिः ॥ अपनीतापहृता तं मार्गं वागिन्द्रियाभावाद्वक्तुमशक्नुवत्य एता लता वीरुध आवर्जिता नमिताः पल्लवाः पाणिस्थानीया याभिस्ताभिः शाखाभिः स्वावयवभूताभिः कृपया मेऽदर्शयन् । हस्तचेष्टयासूचयन्नित्यर्थः ॥ “शाखा वृक्षान्तरे भुजे” इति विश्वः ॥ लतादीनामपि ज्ञानमस्त्येव । तदुक्तं मनुना-“अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः" इति ॥

  मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षास्तवागतिज्ञं समबोधयन्माम् ।
  व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि ॥

 मृग्यश्चेति ॥ दर्भाङ्कुरेषु भक्ष्येषु निर्व्यपेक्षा निःस्पृहा मृग्यो मृगाङ्गनाश्चोत्पक्ष्मराजीनि विलोचनानि दक्षिणस्यां दिशि व्यापारयन्त्यः प्रवर्तयन्त्यः सत्यस्तवागतिज्ञं गत्यनभिज्ञं मां समबोधयन् ॥ दृष्टिचेष्टया त्वद्गतिमबोधयन्नित्यर्थः ॥

  एतद्गिरेर्माल्यवतः पुरस्तादाविर्भवत्य[२]म्बरलेखि शृङ्गम् ।
  नवं पयो यत्र घनैर्मया च त्वद्विप्रयोगाश्रु समं वि[३]सृष्टम् ॥२६॥

 एतदिति ॥ माल्यवतो नाम गिरेरम्बरलेख्यभ्रंकषं श्रुङ्गमेतत्पुरस्तादग्र आविर्भवति । यत्र श्रुङ्गे धनैर्मेधैर्नवं पयो मया त्वद्विपयोगेन यदश्रु तच्च समं युगपद्विसृष्टम् । मेघदर्शनाद्वर्षतुल्यमश्रु विमुक्तमिति भावः ॥

  गन्धश्च धाराहतपल्वलानां कादम्बमोद्गतकेसरं च ।
  स्निग्धाश्च केकाः शिखिनां ब[४]भूवुर्यस्मिन्न[५]सह्यानि विना त्वया मे।।

 गन्धश्चेति ॥ यस्मिञ्छृङ्गे धाराभिर्वर्षधाराभिराहतानां पल्वलानां गन्धश्च । अर्धोद्गतकेसरं कादम्ब नीपकुसुमं च । स्निग्धा मधुराः शिखिनां बर्हिणाम् ॥ "शिखिनौ वन्हिबर्हिणौ" इत्यमरः ॥ केकाश्च । त्वया विना मेऽसह्यानि बभूवुः॥

" नपुंसकमनपुंसकेन-" इति नपुंसकैकशेषः॥


  1. ते.
  2. अम्बरलेढि.
  3. विमुक्तम्.
  4. त्वया; अभूवन्.
  5. विना दुःप्रसहान्यभूवन्.