पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२७८

पुटमेतत् सुपुष्टितम्
( २७६ )
रघुवंशे

  [१]मूर्विमानान्तरलम्बिनीनां श्रूत्वा स्वनं काञ्चनकिङ्किणीनाम् ।
  प्रत्युद्व्रजन्तीव खमुत्पतन्त्यो गोदावरीसारसपतङ्कयस्त्वाम् ॥ ३३॥

 अमूरिति ॥ विमानस्यान्तरेष्ववकाशेषु लम्बन्ते यास्तासां काञ्चनकिङ्किणीनां स्वनं श्रुत्वा स्वयूथशब्दभ्रमात्खमाकाशमुत्पतन्त्योऽमूर्गोदावरीसारसपङ्कयस्त्वां प्रत्युद्व्रजन्तीव ॥

  एषा त्वया पे[२]शलमध्ययापि घटाम्बुसंवर्धितबा[३]लचूता ।
  [४]नन्दयत्युन्मुखकृष्णसारा दृष्टा चिरात्पञ्चवटी मनो मे ॥३४॥

 एषेति ॥ पेशलमध्ययापि । भाराक्षमयापीत्यर्थः । त्वया घटाम्बुभिः संवर्धिता बालचूता यस्याः सा । उन्मुखा अस्मदभिमुखास्त्वत्संवर्धिता एव कृष्णसारा यस्याः सा चिराद्दृष्टैषा पञ्चवटी मे मन आनन्दयसाहादयति ॥ पञ्चवटीशब्दः पूर्वमेव व्याख्यातः॥

  अत्रानुगोदं मृगयानिवृत्तस्तरंगवातेन विनीतखेदः।
  रहस्त्वदुत्सङ्गनिष[५]ण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तः॥ ३५ ॥

 अत्रेति ॥ अत्र पञ्चवट्याम् । गोदा गोदावरी । तस्याः समीपेऽनुगोदम् ॥ "अनुर्यत्समया" इत्यव्ययीभावः। मृगायाया निवृत्तस्तरंगवातेन विनीतखेदो रहो रहसि ॥ अत्यन्तसंयोगे द्वितीया ॥ त्वदुत्सङ्गनिषण्णमूर्धा सन्नहं वानीरगृहेषु सुप्तः स्मरामि ॥ वाक्यार्थः कर्म ॥ सुप्त इति यत्तत्स्मरामीत्यर्थः ।।

  भ्रू[६]भेदमात्रेण पदान्मघोनः प्रभ्रंशयां यो नहुषं चकार ।
  तस्याविलाम्भःपरिशुद्धिहेतोर्भैमो मुनेः स्थानपरिग्रहोऽयम् ॥३६॥

 भ्रूभेदेति ॥ यो मुनिर्भूभेदमात्रेण भ्रूभङ्गमात्रेणैव नहुषं राजानं मघोनः पदादिन्द्रत्वात्मभ्रंशयांचकार प्रभ्रंशयति स्म । आविलाम्भःपरिशुद्धिहेतोः कलुषजलमसादहेतोस्तस्य मुनेरगस्त्यस्य । अगस्त्योदये शरदि जलं प्रसीदतीत्युक्तं प्राक् । भूमौ भवो भौमः स्थानपरिग्रह आश्रमोऽयम् । दृश्यत इति शेषः॥भौम इत्यनेन दिव्योऽप्यस्तीत्युक्तम् । परिगृह्यत इति परिग्रहः । स्थानमेव परिग्रह इति विग्रहः॥

  त्रेतागिधूमाग्रमनिन्द्यकीर्तेस्तस्येदमाक्रान्तविमानमार्गम् ।
  घ्रात्वा हविर्गन्धि रजोविमुक्तः समश्नुते मे लघिमानमात्मा ॥३७॥

 आतेति॥अनिन्द्यकीर्तेस्तास्यागस्त्यस्त्याक्राविमानमार्गम् हविर्गन्धोऽस्यास्तीति

हविर्गन्धि त्रेताग्निरग्नित्रयम् ॥“अग्नित्रयमिदं त्रेता" इत्यमरः।। पृषोदरादि-


  1. अमुम्.
  2. पेलवमध्यया; कोमलमध्यया.
  3. बालचूतान्.
  4. आह्लादयति; आक्लेदयति
  5. निषङ्गमूर्धा.
  6. भूभङ्गमात्रेण.