पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२७९

पुटमेतत् सुपुष्टितम्
( २७७ )
त्रयोदशः सर्गः ।

त्वादेत्वम् ॥ त्रेताग्नेर्धूमाग्रमिदं घ्रात्वाघ्राय रजसो गुणाद्विमुक्तो मे ममात्मान्तःकरणं लघिमानं लघुत्वगुणं समश्नुते प्राप्नोति ॥

  एतन्मुनेर्मानिनि शा[१]तकर्णेः पञ्चाप्सरो नाम विहारवारि ।
  आभाति पर्यन्तवनं विदूरान्मेघान्तरालक्ष्यमिवेन्दुबिम्बम् ॥३८॥

 एतदिति ॥ हे मानिनि, शातकर्णेर्मुनेः संबन्धि पञ्चाप्सरो नाम पञ्चाप्सर इति प्रसिद्धम् ॥ पञ्चाप्सरसो यस्मिन्निति विग्रहः ॥ पर्यन्तेषु वनानि यस्य तत्पर्यन्तवनमेतद्विहारवारि क्रीडासरो विदूरात् । मेघानामन्तरे मध्य आलक्ष्यमीषद्दृश्यम् ॥ "आ ईषदर्थेऽभिव्याप्तौ" इत्यमरः ॥ इन्दुविम्बमिव । आभाति ॥

  पुरा स दर्भाङ्कुरमात्रवृत्तिश्चरन्मृगैः सार्धमृषिर्मघोना।
  समाधिभीते[२]न किलोपनीतः पञ्चाप्सरोयौवनकूटबन्धम् ॥३९॥

 पुरेति ॥ पुरा पूर्वस्मिन्काले दर्भाङ्करमात्रवृत्तिस्तन्मात्राहारो मृगैः सार्धं सह चरन्स ऋषिः समाधेस्तपसो भीतेन मघोनेन्द्रेण पञ्चानामप्सरसां यौवनम् ॥ “तद्धितार्थ-" इत्यादिनोत्तरपदसमासः ॥ तदेव कूटबन्धं कपटयन्त्रमुपनीतः ॥ उन्माथः कूटयन्त्र स्यात्" इत्यमरः ॥ किलेत्यैतिह्ये ॥ मृगसाहचर्यान्मृगवदेव बद्ध इति भावः ॥

  तस्यायमन्तर्हितसौधभाजः प्र[३]सक्तसंगीतमृदङ्गघो[४]षः।
  वियद्गतः पुष्पकचन्द्रशालाः क्षणं प्रतिश्रुन्मुखराः करोति ॥४०॥

 तस्येति ॥}} अन्तर्हितसौधभाजो जलान्तर्गतप्रासादगतस्य तस्य शातकर्णेरयं प्रसक्तः संततः संगीतमृदङ्गघोषो वियद्गतः सन्पुष्पकस्य चन्द्रशाला: शिरोगृहाणि॥ चन्द्रशाला शिरोगृहम्" इति हलायुधः ॥ क्षणं प्रतिश्रुद्भिः प्रतिध्वानैर्मुखरा ध्वनन्तीः करोति ॥ “ स्त्री प्रतिश्रुत्पतिध्वाने" इत्यमरः॥

  हविर्भुजामेधवतां चतुर्णां मध्ये ललाटंतपसप्तसप्तिः ।
  असौ त[५]पस्यत्यपरस्तपस्वी नाम्ना सुतीक्ष्णश्चरितेन दान्तः ॥४१॥

 हविरिति ॥ नाम्ना सुतीक्ष्णः सुतीक्ष्णनामा चरितेन दान्तः सौम्योऽसावपरस्तपस्वी । एधवतामिन्धनवताम् ॥ "काष्ठं दार्विन्धनं त्वेधः" इत्यमरः ॥ चतुणीं हविर्भुजामग्नीनां मध्ये । ललाटं तपतीति ललाटंतपः सूर्यः ॥ " असूर्यललाटयोर्दृशितपोः" इति खश्प्रत्ययः । “अरुर्द्विषत्-" इत्यादिना मुमागमः ।।

ललाटंतपः सप्तसप्तिः सप्ताश्वः सूर्यो यस्य स तथोक्तः सन् । तपस्यति तपश्चरति ॥


  1. माण्डकर्णेः मान्दकर्णेः.
  2. भेदेन.
  3. प्रयुक्त.
  4. नादः.
  5. हि तप्स्यति.