पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२८

पुटमेतत् सुपुष्टितम्
( २६ )
रघुवंशे

 सुतामिति ॥ तस्याः सुरभेरियं तदीया । तां सुतां सुरभेः प्रतिनिधिं कृत्वा शुचिः शुद्धः। सह पत्न्या वर्तत इति सपत्नीकः सन् ॥“नद्यृतश्च” इति कप्प्रत्ययः ॥ आराधय । हि यस्मात्कारणात्सा प्रीता तुष्टा सती । कामान्दोग्धीति कामदुघा भवति ॥ “दुहः कब्घश्च" इति कप्प्रत्ययः । घादेशश्च ।।

  इति वादिन एवास्य होतुराहुतिसाधनम् ।
  अनिन्द्या नन्दिनी नाम धेनुराववृते वनात् ॥ ८२॥

 इतीति ॥ इति वादिनो वदत एव होतुर्हवनशीलस्य ॥ “ तृन्” इति तृन्प्रत्ययः ॥ अस्य मुनेराहुतीनां साधनं कारणम् । नन्दयतीति व्युत्पत्त्या नन्दिनी नामानिन्द्यागर्ह्या प्रशस्ता धेनुर्वनादाववृते प्रत्यागता । “अव्याक्षेपो भविष्यन्त्याः कार्यसिध्देर्हि लक्षणम्” इति भावः ॥

 संप्रति धेनुं विशिनष्टि--

  [१]ललाटोदयमाभुग्नं पल्लवस्निग्धपाटला।
  बिभ्रती श्वेतरोमाङ्कं संध्येव शशिनं नवम् ॥ ८३॥

 ललाटेति ॥ पल्लववत्स्निग्धा चासौ पाटला च । संध्यायामप्येतद्विशेषणं योज्यम् । ललाट उदयो यस्य स ललाटोदयः । तमाभुग्नमीषद्वक्रम् ॥ “आबिद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि” इत्यमरः ॥ “उदितश्च" इति निष्ठातस्य नत्वम् ।। श्वेतरोमाण्येवाङ्कस्तं बिभ्रती । नवं शशिनं बिभ्रती संध्येव । स्थिता ।।

  भुवं कोष्णेन कुण्डोध्नी मेध्येनावभृथादपि ।
  [२]प्रस्नवेनाभिवर्षन्ती वत्सालोकप्रवर्तिना ।। ८४ ॥

 भुवमिति ॥ कोष्णेन किंचिदुष्णेन ॥ “कवं चोष्णे” इति चकारात्कादेशः ॥ अवभृथादप्यवभृथस्नानादपि मेध्येन पवित्रेण ॥ “पूतं पवित्रं मेध्यं च ” इत्यमरः ॥ वत्सस्यालोकेन प्रदर्शनेन प्रवर्तिना प्रवहता प्रस्नवेन क्षीराभिस्यन्दनेन भुवमभिवर्षन्ती सिञ्चन्ती । कुण्डमिवोध आपीनं यस्याः सा कुण्डोध्नी ॥ “ऊधस्तु क्लीबमापीनम्” इत्यमरः ॥ “ऊधसोऽनङ्” इत्यनङादेशः ॥“बहुव्रीहरूधसो ङीष्” इति ङीष् ॥

  रजःकणैः खुरोध्दूतैः स्पृशद्भिर्गात्रमन्तिकात् ।
  तीर्था[३]भिषेकजा शुद्धिमादधाना [४]महीक्षितः ॥ ८५॥



  1. ताम्रललाटाजां रेखा बिभ्रती सासितेतराम् । संध्या प्रातिपदेनेव प्र(द्यु)तिभिन्ना हिमांशुना.
  2. प्रस्रवेण.
  3. तीर्थाभिषेकसंशुद्धिम्.
  4. महीभृतः; महीपतेः.