पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२८०

पुटमेतत् सुपुष्टितम्
( २७८ )
रघुवंशे

"कर्मणा रोमन्थतपोभ्यां वर्तिचरोः" इति क्याङ् । तपसः परस्मैपदं च" इति वक्तव्यम् ॥

  अमुं सहासप्रहितेक्षणानि व्याजासंदर्शितमेखलानि ।
  नालं विकर्तुं जनितेन्द्रशङ्कं सुराङ्गनाविभ्रमचेष्टितानि ॥४२॥

 अमुमिति ॥ जनितेन्द्रशङ्कम् । तपसेति शेषः । अमुं सुतीक्ष्णं सहासं प्रहितानीक्षणानि दृष्टयो येषु तानि । व्याजेन केनचिन्मिषेण ॥ “पुंस्यर्थोऽर्धं समेंऽशके " इति विश्वः ॥अर्धमीषत्पसंदर्शिता मेखला येषु तानि सुराङ्गनानामिन्द्रप्रेषितानां विभ्रमा विलासा एव चेष्टितानि विकर्तुं स्खलयितुमलं समर्थानि न । बभूवुरिति शेषः॥

  एषोऽक्षमालावलयं मृगाणां कण्डूयितारं कुशसूचिलावम् ।
  सभाजने मे भुजमू[१]र्ध्वबाहुः सव्येतरं प्रा[२]ध्वमितः प्रयुङ्क्ते ॥४३॥

 एष इति ॥ ऊर्ध्वबाहुरेष सुतीक्ष्णोऽक्षमालैव वलयं यस्य तं मृगाणां कण्डूयितारम् । कुशा एव सूचयस्ता लुनातीति कुशसूचिलावस्तम् ॥ “कर्मण्यम्" इत्यण्॥ एभिर्विशेषणैर्जयशीलत्वं भूतदया कर्मक्षमत्वं च द्योत्यते ॥ सव्यादितरं दक्षिणं भुजं मे मम सभाजने संमाननिमित्ते ॥ "निमित्तात्कर्मयोगे" इति सप्तमी ॥ इतः प्राध्वं प्रकृतानुकूलबन्धं प्रयुङ्क्ते ॥ “आनुकूल्यार्थकं प्राध्वम्" इत्यमरः ॥ अव्ययं चैतत् ॥

  वाचंयमत्वात्प्रणति ममैष कम्पेन किंचित्प्रतिगृह्य मूर्ध्नः ।
  दृष्टिं विमानव्यवधानमुक्तां पुनः सहस्रार्चिषि संनिधत्ते ॥४४॥

 वाचंयमेति ॥ एष सुतीक्ष्णः । वाचं यच्छतीति वाचंयमो मौनव्रती ॥ "वाचि यमो व्रते" इति खच्प्रत्ययः । “वाचंयमपुरंदरौ च" इति मुम् ॥ तस्य भावस्तत्त्वान्मम प्रणतिं किंचिन्मूर्ध्नः कम्पेन प्रतिगृह्य विमानेन व्यवधानं तिरोधानं तस्मान्मुक्ताम् ॥ “अपेतापोढमुक्तपतित-" इत्यादिना पञ्चमीसमासः॥ दृष्टिं पुनः सहस्रार्चिषि सूर्ये संनिधत्ते । सम्यग्धत्त इत्यर्थः । अन्यथाकर्मकत्वा प्सारसङ्ड्त्गा॥

  अदः शरण्यं शरभङ्गनाम्नस्तपोवनं पावनमाहिताग्नेः ।
  चिराय संतर्प्य समिद्भिरग्नीं यो मन्त्रपूतां तनुमप्यहौषीत् ॥४५॥

 अद इति ॥ शरणे रक्षणे साधु शरण्यम् । पावयतीति पावनम् । अदो दृश्यमानं तपोवनमाहिताग्नेः शरभङ्गनाम्नो मुनेः संबन्धि । यः शरभाश्चिराय चिरमग्निं समिद्भिः संतर्प्य तर्पयित्वा ततो मन्त्रैः पूतां शुद्धां तनुमप्यहैषीदुतवान् ॥ जुहोतेर्लुङ् ॥

  छायाविनीताध्वपरिश्रमेषु भूयिष्ठसंभाव्यफलेष्वमीषु ।
  तस्यातिथीनामधुना सपर्या स्थिता सुपुत्रेष्विव पादपेषु ॥४६॥


  1. उग्रतेजाः
  2. प्रांशु.