पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२८६

पुटमेतत् सुपुष्टितम्
( २८४ )
रघुवंशे

 एतावदिति॥दाशरथौ राम एतावदुक्तवति सति विमानं पुष्पकम् । कर्तृ । तदीयां रामसंबन्धिनीमिच्छामधिदेवतया मिषेण विदित्वा । तत्प्रेरितं सदित्यर्थः । सविस्मयाभिर्भरतानुगाभिः प्रकृतिभिः प्रजाभिरुद्वीक्षितं सज्ज्योतिष्पथादाकाशादवततार ॥

  तस्मात्पुरःसरबिभीषणदर्शितेन
   सेवाविचक्षणहरीश्वरदत्तहस्तः ।
  यानादवातरददूरमहीतलेन
   मार्गेण भङ्गिरचितस्फटिकेन रामः ॥ ६९ ॥

 तस्मादिति ॥ रामः सेवायां विचक्षणः कुशलो हरीश्वरः सुग्रीवस्तेन दत्तो हस्तो हस्तावलम्बो यस्य तादृशः सन् । स्थलज्ञत्वात्पुरःसरो विभीपणस्तन दर्शितेनादूरमासन्नं महीतलं यस्य तेन भङ्गिभिर्विच्छित्तिभी रचितस्फटिकेन बद्धस्फटिकेन सोपानपर्वणा मार्गेण तस्माद्यानात्पुष्पकादवातरदवतीर्णवान् ॥ तरतेर्लङ् ॥

  इक्ष्वाकुवंशगुरवे प्रयतः प्रणम्य
   से[१] भ्रातरं भरतम[२]र्घ्यपरिग्रहान्ते ।
  पर्यश्रुरस्वजत मूर्धनि चोपजघ्रौ
   तद्भक्त्यपोढपितृराज्यमहाभिषिके ॥ ७० ॥

 इक्ष्वाक्विति ॥ प्रयत: स राम इक्ष्वाकुवंशगुरवे वसिष्ठाय प्रणम्य नमस्कृत्यार्घ्यस्य परिग्रहः स्वीकारस्तस्यान्ते पर्यश्रुः परिगतानन्दबाष्पः सन् । भ्रातरं भरतमस्वजतालिङ्गत् । तस्मिन्रामे भक्त्यापोढः परिहृतः पितृराज्यमहाभिषेको येन तस्मिन्मूर्धन्युपजघौ च ॥ घ्रा गन्धोपादाने" लिटि रूपम् ॥

  मश्रुप्रवृद्धिजनिता[३]ननविक्रियांश्च
   [४]क्षान्प्ररोहजटिलानिव मन्त्रिवृद्धान् ।
  [५]न्वग्रहीत्प्रणमतः शुभदृष्टिपा[६]तै-
   र्वार्तानुयोगमधुराक्षरया च वाचा ॥ ७१ ॥

 श्मश्र्विति ॥ श्मश्रूणां मुखरोम्णां प्रवृद्ध्या संस्काराभावादभिवृद्ध्या जनिताननेषु विक्रिया विकृतिर्येषां तानतएव प्ररोहैः शाखावलम्बिभिरधोमुखैर्मूलैजटिलाञ्जटावतः प्लक्षान्यग्रोधानिव स्थितान् । प्रणमतो मन्त्रिवृद्धांश्च शुभैः

कृपादृष्टिपातैर्वार्तस्यानुयोगेन कुशलप्रश्नेन मधुराक्षरया वाचा चान्वग्रहीदनुगृहीतवान् ।


  1. सभ्रातरम्.
  2. अर्धपरिग्रहान्ते.
  3. आकृतिविक्रियान्.
  4. वृक्षान्.
  5. प्रत्यग्रहीत्.
  6. दाने: