दुर्जात इति ॥ अयं मे दुर्जातबन्धुरापद्बन्धुः। “दुर्जातं व्यसनं प्रोक्तम्" इति विश्वः ॥ ऋक्षहरीश्वरः सुग्रीवः । एष समरेषु पुरःमहर्ता पौलस्त्यो विभीषणः। इत्यादृतेनादरवता ॥ कर्तरि क्तः॥ रघूणां नन्दनेन रामेण कथितावुभौ विभीषणसुग्रीवौ लक्ष्मणमनुजमपि व्युत्क्रम्यालिङ्गनादिभिरसंभाव्य भरतो ववन्दे ।।
सौमित्रिणा तदनु संससृजे स चैन-
मुत्थाप्य नम्रशिरसं भृशमालिलिङ्ग ।
रूढेन्द्रजित्प्रहरणव्रणकर्कशेन
क्लिश्यन्निवास्य भुजमध्यमुरःस्थलेन ॥ ७३ ॥
सौमित्रिणेति ॥ तदनु सुग्रीवादिवन्दनानन्तरं स भरतः सौमित्रिणा संससृजे संगतः ॥ "सृज विसर्गे" देवादिकात्कर्तरि लिट् ॥ नम्रशिरसं प्रणतमेनं सौमित्रिमुत्थाप्य भृशं गाढमालिलिङ्ग च । किं कुर्वन् । रूढेन्द्रजिर्प्रहरणव्रणैः कर्कशेनास्य सौमित्रेरुर:स्थलेन भुजमध्यं स्वकीयं क्लिश्यन्निव पीडयन्निव ॥ क्लिश्नातिरयं सकर्मकः। “क्लिश्नाति भुवनत्रयम्" इति दर्शनात् ॥ ननु रामायणे-“ततो लक्ष्मणमासाद्य वैदेही च परंतपः। अभिवाद्य ततः प्रीतो भरतो नाम चाब्रवीत् " इति भरतस्य कानिष्ठ्यं प्रतीयते । किमर्थं ज्यैष्ठ्यमवलम्ब्यानार्जवेन श्लोको व्याख्यातः । सत्यम् । किंतु रामायणश्लोकार्थष्टीकाकृतोक्तः श्रूयताम् ॥ “ततो लक्ष्मणमासाद्य-" इत्यादिश्लोक आसादनं लक्ष्मणवैदेह्योः । अभिवादनं तु वैदेह्या एव । अन्यथा पूर्वोक्तं भरतस्य ज्यैष्ठ्यं विरुध्येतेति ॥
रामाज्ञया हरिचमूपतयस्तदानीं
कृत्वा मनुष्यवपुरारुरुहुर्गजेन्द्रान्।
तेषु[४] क्षरत्सु बहुधा मदवारिधाराः
शैलाधिरोहणसुखान्युपलेभिरे ते ॥ ७४ ॥
रामेति ॥ तदानीं हरिचमूपतयो रामाज्ञया मनुष्यवपुः कृत्वा गजेन्द्रानारुरुहुः।
बहुधा मदवारिधाराः क्षरत्सु वर्षत्सु तेषु गजेन्द्रेषु ते कपियूथनाथाः शैलाधिरोहणसुखान्युपलेभिरेऽनुबभूवुः ॥