पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२९०

पुटमेतत् सुपुष्टितम्
( २८८ )
रघुवंशे

“अवस्थायां वस्त्रान्ते स्याद्दशापि" इति विश्वः॥ प्रसन्ने प्राप्ते जनन्यौ कौसल्यासुमित्रे तत्र साकेतोपवने समं युगपदपश्यताम् ॥ दृशेः कर्तरि लङ् ॥

  उभावुभाभ्यां प्रणतो हतारी यथाक्रमं विक्रमशोभिनौ तौ।
  विस्पष्टमस्रान्धतया न दृष्टौ ज्ञातौ सु[१]तस्पर्शसुखोपलम्भात् ॥२॥

 उभाविति ॥ यथाक्रमं स्वस्वमातृपूर्वकं प्रणतौ नमस्कृतवन्तौ हतारी हतशत्रुकौ विक्रमशोभिनौ तावुभौ रामलक्ष्मणावुभाभ्यां मातृभ्यामौरश्रुभिरन्धतया हेतुना ॥ “अस्रमश्रु च शोणितम्" इति यादवः॥ विस्पष्टं न दृष्टौ किंतु सुतस्पर्शेन यत्सुखं तस्योपलम्भादनुभवाज्ज्ञातौ ॥

  आनन्दजः शोकजमश्रु बाष्पस्तयोरशीतं शिशिरो बिभेद ।
  गङ्गासरय्वोर्जलमुष्णतप्तं हिमाद्रिनिस्यन्द इवावतीर्णः ॥ ३॥

 आनन्दज इति ॥ तयोर्मात्रोरानन्दजः शिशिरो बाष्पः शोकजमशीतमुष्णमश्रु । उष्णतप्तं ग्रीष्मतप्तं गङ्गासरय्वोर्जलम् । कर्म । अवतीर्णो हिमाद्रेर्निस्यन्दो निर्झर इव । बिभेद ॥ आनन्देन शोकस्तिरस्कृत इत्यर्थः ॥

  ते[२] पुत्रयोनैर्ऋतशस्त्रमा[३]र्गानार्द्रानिवाङ्गे सदयं स्पृशन्त्यौ।
  अपीप्सितं क्षत्रकुलाङ्गनानां न वीरसूशब्दम[४]कामयेताम् ॥ ४ ॥

 ते इति ॥ ते मातरौ पुत्रयोरङ्गे शरीरे नैर्ऋतशस्त्राणां राक्षसशस्त्राणां मार्गान्त्रणानाान्सरसानिव सदयं स्पृशन्त्यौ क्षत्रकुलाङ्गनानामीप्सितमिष्टमपि वीरसूर्वीरमातेति शब्दं नाकामयेताम् । वीरप्रसवो दुःखहेतुरिति भावः ॥

  क्लेशावहा भर्तुरलक्षणाहं सीतेति नाम स्वमु[५]दीरयन्ती ।
  स्व[६]र्गप्रतिष्ठस्य गुरोर्महिष्यावभक्तिभेदेन वधूर्ववन्दे ॥५॥

 क्लेशावहेति ॥ आवहतीत्यावहा । भर्तुः क्लेशावहा क्लेशकारिणी । अतएवालक्षणाहं सीतेति स्वं नामोदीरयन्ती स्वर्गः प्रतिष्ठास्पदं यस्य तस्य स्वर्गस्थितस्य गुरोः श्वशुरस्य महिष्यौ श्वश्र्वौ वधूः स्नुषा ॥ “वधूः स्नुषा वधूर्जाया" इत्यमरः ॥अभक्तिभेदेन ववन्दे॥स्वर्गप्रतिष्ठस्येत्यनेन श्वश्रूवैधव्यदर्शनदुःखं सूचितम् ॥

  उत्तिष्ठ वत्से ननु सानुजोऽसौ वृत्तेन भर्ता शुचिना तवैव ।
  कृच्छ्रं महत्तीर्ण इति प्रियार्हां तामूचतुस्ते प्रियमप्यमिथ्या ॥६॥


  1. सुतस्पर्शरसोपलम्भात्; मुखस्पर्शसुखोपलम्भात्.
  2. ते पुत्रयोनैऋतशस्त्रमार्गास्थिरमरूढानपि
    वत्सलत्वात् । आर्द्रानिवाङ्गे सदयं स्पृशन्त्यौ भूयस्तयोर्ज्न्म समर्थयेताम्.
  3. घातान्.
  4. अकारयेताम् ;
    अपाकरोति.
  5. उदाहरन्ती.
  6. स्वर्गं प्रविष्टस्य.