पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२९१

पुटमेतत् सुपुष्टितम्
( २८९ )
चतुर्दशः सर्गः ।

 उत्तिष्ठेति ॥ ननु "वत्से, उत्तिष्ठ । असौ सानुजो भर्ता तवैव शुचिना वृत्तेन महत्कृच्छ्रं दुःखं तीर्णस्तीर्णवान्" इति प्रियार्हां तां वधू प्रियमप्यमिथ्या सत्यं ते श्वश्र्वावूचतुः श्वावूचतुः ॥ उभयं दुर्वचमिति भावः ॥

  अथाभिषेकं रघुवंशकेतोः प्रारब्धमानन्दजलैर्जनन्योः ।
  निवर्तयामासुरमात्यवृद्धास्तीर्थाहतैः काञ्चनकुम्भतोयैः ॥७॥

 अथेति ॥ अथ जनन्योरानन्दजलैरानन्दबाष्पैः प्रारब्धं प्रक्रान्तं रघुवंशकेतो रामस्याभिषेकममात्यद्धास्तीर्थेभ्यो गङ्गाप्रमुखेभ्य आहृतैरानीतैः काञ्चनकुम्भतोयैर्निवर्तयामासुर्निष्पादयामासुः॥

  सरित्समुद्रान्सरसीश्च गत्वा रक्षःकपीन्द्रैरुपपादितानि ।
  तस्यापतन्मूर्ध्नि जलानि जिष्णोर्विन्ध्यस्य मेघप्रभवा इवापः।।८॥

 सरिदिति ॥ रक्षाकपीन्द्रः सरितो गङ्गायाः समुद्रान्पूर्वादीन्सरसीर्निमान्सादीश्च गत्वा । उपपादितान्युपनीतानि जलानि जिष्णोर्जयशीलस्य ॥ “ ग्लाजिस्थश्च ग्स्नुः" इति गस्नुप्रत्ययः ॥ तस्य रामस्य मूर्ध्नि । विन्ध्यस्य विन्ध्याद्रेर्मूध्नि मेघप्रभवा आप इव । अपतन् ।

  तपस्विवेषक्रिययापि तावद्यः प्रेक्षणीयः सुतरां बभूव ।
  राजेन्द्रनेपथ्यविधानशोभा तस्योदितासीत्पुनरुक्तदोषा॥९॥

 तपस्वीति । यो रामस्तपस्विक्रिययापि तपस्विवेषरचनयापि सुतरामत्यन्तं प्रेक्षणीयस्तावदर्शनीय एव वभूव । तस्य राजेन्द्रनेपथ्यविधानेन राजवेषरचनयोदिता या शोभा सा पुनरुक्तं नाम दोषो यस्याः सा पुनरुक्तदोषा द्विगुणासीत् ॥

  [१] मौलरक्षोहरिभिः ससैन्यस्तूर्यस्वनानन्दितपौ[२]रवर्गः।
  विवेश सौधोद्गतलाजवर्षामुत्तोरणामन्वयराजधानीम् ॥ १० ॥

 स इति ॥ स रामः ससैन्यस्तूर्यस्वनानन्दितपौरवर्गः सन् । मूले भवा मौला मन्त्रिवृद्धास्तै रक्षोभिर्हरिभिश्च सह सौधेभ्य उद्तलाजवर्षामुत्तोरणामन्वयराजधानीमयोध्यां विवेश प्रविष्टवान् ॥

  सौमित्रिणा सावरजेन मन्दमाधूतबालव्यजनो रथस्थः ।
  धृतातपत्रो भरतेन साक्षादुपायसंघात इव प्र[३]वृद्धः ॥११॥

 सौमित्रिणेति ॥ सावरजेन शत्रुघ्नयुक्तेन सौमित्रिणा लक्ष्मणेन मन्दमाधूते


  1. स मौलिरक्षोहरिभिः सुसैन्यः; स मौलिरक्षोहरिमिश्रसैन्यः; सपौररक्षोहरिमिश्रसैन्यः.
  2. पौरवर्गाम् ;
    राजमार्गम्.
  3. प्रवृत्तः; प्रसिद्धः.