पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२९३

पुटमेतत् सुपुष्टितम्
( २९१ )
चतुर्दशः सर्गः ।

विचार्यमाणं तव सुकृतम् । इत्येवं प्रकारेण भरतस्य मातुः कैकेय्या लज्जां जहारापानयत् । राज्ञां प्रतिज्ञापरिपालनं स्वर्गसाधनमित्यर्थः । भरतग्रहणं तदपेक्षयापि कैकेय्यनुसरणद्योतनार्थम् ॥

  तथैव[१] सुग्रीवविभीषणादीनुपाचरत्कृत्रिमसंविधाभिः ।
  संकल्पमात्रोदितसिद्धयस्ते क्रान्ता यथा चेतसि विस्मयेन ॥ १७ ॥

 तथेति ॥ सुग्रीवविभीषणादीन् । संविधीयन्त इति संविधा भोग्यवस्तूनि । कृत्रिमसंविधाभिस्तथा तेन प्रकारेणैवोपाचरत् । यथा संकल्पमात्रेणेच्छामात्रेणोदितसिद्धयस्ते सुग्रीवादयश्चेतसि विस्मयेन क्रान्ता आक्रान्ताः ॥

  सभाजनायोपगतान्स दिव्यान्मुनीन्पुरस्कृत्य हतस्य शत्रोः ।
  शुश्राव तेभ्यः प्रभवादि वृत्तं स्वविक्रमे गौरवमा[२]दधानम् ॥ १८ ॥

 सभाजनायेति ।। स रामः सभाजनायाभिवन्दनायोपगतान्दिवि भवान्मुनीनगस्त्यादीन्पुरस्कृत्य हतस्य शत्रो रावणस्य प्रभवादि जन्मादिकं स्वविक्रमे गौरवमुत्कर्षमादधानं वृत्तं तेभ्यो मुनिभ्यः शुश्राव श्रुतवान् । विजितोत्कर्षाज्जेतुरुत्कर्ष इत्यर्थः ॥

  प्रतिप्रयातेषु तपोधनेषु सुखादविज्ञातगतार्धमासान् ।
  सीतास्वहस्तोपहृताग्र्यपूजान्रक्षःकपीन्द्रान्विससर्ज रामः ॥ १९ ॥

 प्रतीति ॥ तपोधनेषु मुनिषु प्रतिप्रयातेषु प्रतिनिवृत्य गतेषु सत्सु सुखादविज्ञात एव गतोऽर्धमासो येषां ताननन्तरं सीतायाः स्वहस्तेनोपहृता दत्ताग्र्यपूजोत्तमसंभावना येभ्यस्तान् । एतेन सौहार्दातिशय उक्तः । रक्षःकपीन्द्रान्रामो विससर्ज विसृष्टवान् ॥

  तच्चात्मचिन्तासुलभं विमानं हृतं सुरारेः सह जीवितेन ।
  कैलासनाथोद्वहनाय भूयः पुष्पं दिवः पुष्पकमन्वमंस्त ॥ २० ॥

 तच्चेति ॥ तच्चात्मचिन्तासुलभं स्वेच्छामात्रलभ्यं सुरारे रावणस्य जीवितेन सह हृतं दिवः पुष्पं पुष्पवदाभरणभूतं पुष्पकं विमानं भूयः पुनरपि कैलासनाथस्य कुबेरस्योद्वहनायान्वमंस्तानुज्ञातवान् ॥ मन्यतेर्लु्ङ् ॥ भूयोग्रहणेन पूर्वमप्येतत्कौबेरमेवेति सूच्यते ॥

  पितुर्नियोगाद्व[३]नवासमेवं निस्तीर्य रामः प्रतिपन्नराज्यः ।
  धर्मार्थकामेषु स[४]मां प्रपेदे यथा तथैवावरजेषु वृत्तिम् ॥ २१ ॥

 पितुरिति ॥ राम एवं पितुर्नियोगाच्छासनाद्वनवासं निस्तीर्यानन्तरं प्रतिपन्नराज्यः प्राप्तराज्यः सन् । धर्मार्थकामेषु यथा तथैवावरजेष्वनुजेषु समां वृत्तिं प्रपेदे । अवैषम्येण व्यवहृतवानित्यर्थः ॥


  1. च.
  2. आदधानः
  3. वनवासदुःखम्.
  4. समम्.