पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२९४

पुटमेतत् सुपुष्टितम्
( २८२ )
रघुवंशे

  सर्वासु मातृष्वपि वत्सलत्वात्स निर्विशेषप्रतिपत्तिरासीत् ।
  षडाननापीतपयोधरासु नेता चमूनामिव कृत्तिकासु ॥ २२॥

 सर्वास्विति ॥ स रामो वत्सलत्वात्स्निग्धत्वात् । न तु लोकप्रतीत्यर्थम् ॥ "स्निग्धस्तु वत्सलः" इत्यमरः ॥ सर्वासु मातृष्वपि निर्विशेषप्रतिपत्तिस्तुल्यसत्कार आसीत् ॥ कथमिव । चमूनां नेता षण्मुखः षड्भिराननैरापीताः पयोधराः स्तना यासां तासु कृत्तिकास्विव ॥

  तेनार्थवाँल्लोभपराङ्मुखेन तेन घ्नता विघ्नभयं क्रियावान् ।
  तेनास लोकः पितृमान्विनेत्रा तेनैव शोकापनुदेन पुत्री ॥२३॥

 तेनेति ॥ लोको लोभपराङ्मुखेन वदान्येन तेन रामेणार्थवान्धनिक आस बभूव ॥ तिङन्तप्रतिरूपकमव्ययमेतत् ॥ विघ्नेभ्यो भयं घ्नता नुदता तेन क्रियावाननुष्ठानवानास । विनेत्रा नियामकेन तेन पितृमानास । पितृवन्नियच्छतीत्यर्थः । शोकमपनुदतीति शोकापनुदो दुःखस्य हर्ता तेन ॥ “तुन्दशोकयोः परिमृजापनुदोः" इति कप्रत्ययः ॥ तेन पुत्री पुत्रवानास । पुत्रवदानन्दयतीत्यर्थः ॥

  स पौरकार्याणि समीक्ष्य काले रेमे विदेहाधिपतेर्दुहित्रा।
  [१]पस्थितश्चारु वपुस्तदीयं कृत्वोपभोगोत्सुकयेव लक्ष्म्या ॥२४॥

 स इति ॥ स रामः कालेऽवसरे पौराणां कार्याणि प्रयोजनानि समीक्ष्य विदेहाधिपतेर्दुहित्रा सीतया । उपभोगोत्सुकयातएव तदीयं सीतासंबन्धि चारु वपुः कृत्वा स्थितया लक्ष्म्येव । उपस्थितः संगतः सन् । रेमे ॥ " उपस्थानं तु संगतिः" इति यादवः ॥

  तयोर्यथाप्रार्थितमि[२]न्द्रियार्थानासेदुषोः सद्मसु चित्रवत्सु ।
  प्राप्तानि दुःखान्यपि दण्डकेषु संचिन्त्यमानानि सु[३]खान्यभूवन् २५

 तयोरिति ॥ चित्रवत्सु वनवासवृत्तान्तालेख्यवत्सु सद्मसु यथाप्रार्थितं यथेष्टमिन्द्रियार्थानिन्द्रियविषयाञ्शब्दादीनासेदुषोः प्राप्तवतोस्तयोः सीतारामयोर्दण्डकेषु दण्डकारण्येषु प्राप्तानि दुःखान्यपि विरहविलापान्वेषणादीनि संचिन्त्यमानानि स्मर्यमाणानि सुखान्यभूवन् ॥ स्मारकं तु चित्रदर्शनमिति द्रष्टव्यम् ॥

  अथाधिकस्निग्धविलोचनेन मुखेन सीता शरपाण्डुरेण ।
  आनन्दयित्री परिणेतुरासीदनक्षरव्यञ्जितदोहदेने[४] ॥ २६ ॥

 अथेति ॥ अथ सीताधिकस्निग्धविलोचनेनात्यन्तमसृणलोचनेन शरवत्तृणवि-


  1. उपस्थितम्.
  2. इन्द्रियार्थम्.
  3. सुखीबभूवुः.
  4. दौर्हृदेन.