पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२९५

पुटमेतत् सुपुष्टितम्
( २९३ )
चतुर्दशः सर्गः ।

शेषवत्पाण्डुरेणातएवानक्षरमवाग्व्यापारं यथा भवति तथा व्यञ्जितं दोहदं गर्भो येन तेन मुखेन परिणेतुः पत्युरानन्दयित्र्यासीत् ॥

  तामङ्कमारोप्य कृशाङ्गयष्टिं वर्णान्तराक्रान्तपयोधराग्राम् ।
  विलज्जमानां रहसि प्रतीतः पप्रच्छ रामां रमणोऽभिलाषम् ॥२७॥

 तामिति ॥ प्रतीतो गर्भज्ञानवान् । रमयतीति रमणः। प्रियां कृशाङ्गयष्टिं वर्णान्तरेण नीलिम्नाक्रान्तपयोधराग्रां विलज्जमानां तां रामां रहस्यङ्कमारोप्याभिलाषं मनोरथं पप्रच्छ ॥ एतच्च -- "दोहदस्याप्रदानेन गर्भो दोषमवाप्नुयात् " इति शास्त्रात् । न तु लौल्यादित्यनुसंधेयम् ॥

  सा दष्टनीवारब[१]लीनि हिंस्रैः[२] संब[३]द्धवैखानसकन्यकानि ।
  इयेष भूयः कुशवन्ति गन्तुं भागीरथीतीरतपोवनानि ॥२८॥

 सेति॥ सा सीता । हिंस्रैर्दष्टा नीवारा एव वलयो येषु तानि। तिर्यग्भिक्षुकादिदानं बलिः। संबद्धाः कृतसंबन्धाः कृतसख्या वैखानसानां कन्यका येपु तानि कुशवन्ति भागीरथीतीरतपोवनानि भूयः पुनरपि गन्तुमियेषाभिललाष ।

  तस्यै प्रतिश्रुत्य रघुप्रवीरस्तदीप्सितं पार्श्वचरानुयातः ।
  आलोकयिष्यन्मुदितामयोध्यां प्रासादमभ्रंलिहमारुरोह ॥२९॥

 तस्या इति ॥ रघुप्रवीरो रामस्तस्यै सीतायै तत्पूर्वोक्तमीप्सितं मनोरथं प्रतिश्रुत्य पार्श्वचरैस्तत्कालोचितैरनुयातः सन्मुदितां तामयोध्यामालोकयिष्यन् ।अभ्रं लेढीत्यभ्रंलिहमभ्रंकषं प्रासादमारुरोह ॥ “ वहाम्रे लिहः" इति खश्प्रत्ययः। “अरुर्द्विषदजन्तस्य मुम्" इति मुमागमः ॥

  ऋद्धापणं राजपथं स पश्यन्विगाह्यमानां सरयूं च नौभिः ।
  विलासिभिश्चाध्युषितानि पौरैः पुरोपकण्ठोपवनानि रेमे ॥३०॥

 ऋद्धापणमिति ॥ स रामः । ऋद्धा समृद्धा आपणाः पण्यभूमयो यस्मिंस्तं राजपथम् । नौभिः समुद्रवाहिनीभिर्विगाह्यमानां सरयूं च । पौरैर्विलासिभिरध्युषितानि पुरोपकण्ठोपवनानि च पश्यन्रेमे ॥ विलासिन्यश्च विलासिनश्च विलासिनः॥ “पुमान्स्त्रिया" इत्येकशेषः॥

  स किंवदन्तीं वदतां पुरोगः स्ववृत्तमुद्दिश्य विशुद्धवृत्तः।
  सर्पाधिराजोरुभुजोऽपसर्पं पप्रच्छ भद्रं विजितारिभद्रः ॥ ३१ ॥


  1. फलानि.
  2. हंसैः.
  3. समृद्ध.