पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२९६

पुटमेतत् सुपुष्टितम्
( २९४ )
रघुवंशे

 स इति ॥ वदतां वाग्मिनां पुरोगः श्रेष्ठो विशुद्धवृत्तः। सर्पाधिराजः शेषः । तद्वदुरू भुजौ यस्य स विजितारिभद्रो विजितारिश्रेष्ठः स रामः स्ववृत्तमुद्दिश्य भद्रं भद्रनामकमपसर्पं चरं किंवदन्तीं जनवादं पप्रच्छ ॥ " अपसर्पश्चरः स्पशः" इति। "किंवदन्ती जनश्रुतिः" इति चामरः॥

  निर्बन्धपृष्टः स जगाद स[१]र्वं स्तुवन्ति पौराश्चरितं त्वदीयम् ।
  अन्यत्र रक्षोभवनोषितायाः परिग्रहान्मानवदेव देव्याः॥३२॥

 निर्बन्धेति ॥ निर्बन्धेनाग्रहेण पृष्टः सोऽपसर्पो जगाद । किमिति । हे मानवदेव, रक्षोभवन उषिताया देव्याः सीतायाः परिग्रहात्स्वीकारादन्यत्रेतरांशे । तं वर्जयित्वेत्यर्थः । त्वदीयं सर्वं चरितं पौराः स्तुवन्ति ॥

  कलत्रनिन्दागुरुणा किलैवमभ्याहतं कीर्तिविपर्ययेण ।
  अयोघनेनाय इवाभितप्तं वैदेहिबन्धोर्हृदयं विदद्रे ॥ ३३ ॥

 कलत्रेति ॥ एवं किल कलत्रनिन्दया गुरुणा दुर्वहेण कीर्तिविपर्ययेणापकीर्त्याभ्याहतं वैदेहिबन्धोर्वैदेहिवल्लभस्य ॥ " ङ्यापोः संज्ञाछन्दसोर्बहुलम्" इति ह्रस्वः । कालिदास इतिवत् ॥ हृदयम् । अयोघनेनाभितप्तं संतप्तमय इव । विदद्रे विदीर्णम् ॥ कर्तरि लिट् ॥

  किमात्मनिर्वादकथामु[२]पेक्षे जायामदोषामुत सं[३]त्यजामि ।
  इत्येकपक्षाश्रयविक्लवत्वादासीत्स दोलाचलचित्तवृत्तिः॥ ३४ ॥

 किमिति ॥ आत्मनो निर्वादोऽपवाद एव कथा तां किमुपेक्षे । उत अदोषां साध्वीं जायां संत्यजामि ॥ उभयात्रापि प्रश्ने लट् ॥ इत्येकपक्षाश्रयेऽन्यतरपक्षपरिग्रहे विक्लवत्वादपरिच्छेत्तृत्वात्स रामो दोलेव चला चित्तवृत्तिर्यस्य स आसीत्।

  निश्चित्य चानन्यनिवृत्ति वाच्यं त्यागेन पत्न्याः परिमार्ष्टुमैच्छत् ।
  अपि स्वदेहाकिमुतेन्द्रियार्थाद्यशोधनानां हि यशो गरीयः॥३५॥

 निश्चित्येति ॥ किंच । वाच्यमपवादम् । नास्त्यन्येन त्यागातिरिक्तोपायेन निवृत्तिर्यस्य तदनन्यनिवृत्ति । निश्चित्य पत्न्यास्त्यागेन परिमार्ष्टुं परिहर्तुमैच्छत् ।। तथाहि । यशोधनानां पुंसां स्वदेहादपि यशो गरीयो गुरुतरम् । इन्द्रियार्थात्स्रक्चन्दनवनितादेरिन्द्रियविषयाद्गरीय इति किमुत वक्तव्यम् ॥ “पञ्चमी विभक्ते" इत्युभयत्रापि पञ्चमी । सीता चेन्द्रियार्थ एव ।।

  स संनिपात्यावरजान्ह[४]तौजास्तद्विक्रियादर्शनलुप्तहर्षान् ।
  कौलीनमात्माश्रयमाचचक्षे तेभ्यः पुनश्चेदमुवाच वाक्यम् ॥३६॥


  1. वृत्तम.
  2. उपेक्षै; अपेक्षे.
  3. संत्यजानि.
  4. महौजाः.