पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२९७

पुटमेतत् सुपुष्टितम्
( २९५ )
चतुर्दशः सर्गः ।

 स इति ॥ हतौजा निस्तेजस्कः स रामस्तस्य रामस्य विक्रियादर्शनेन लुप्तहर्षानवरजान्संनिपात्य संगमय्यात्माश्रयं स्वविषयकं कौलीनं निन्दा तेभ्य आचचक्षे । पुनरिदं वाक्यमुवाच च ॥

  राजर्षिवंशस्य रविप्रसूतेरुपस्थितः पश्यत कीदृशोऽयम् ।
  मत्तः सदाचारशुचेः कलङ्कः पयोदवातादिव दर्पणस्य ।। ३७॥

 राजर्षीति ॥ रवेः प्रसूतिर्जन्म यस्य तस्य राजर्षिवंशस्य सदाचारशुचेः सद्वृत्ताच्छुद्धान्मत्तो मत्सकाशात् । दर्पणस्य पयोदवातादिव । अम्भः कणादित्यर्थः। कीदृशोऽयं कलङ्क उपस्थितः प्राप्तः पश्यत ॥

  पौरेषु सोऽहं बहुलीभवन्तमपां तरंगेष्विव तैलबिन्दुम् ।
  सोढुं न तत्पूर्वमवर्णमीशे आलानिकं स्था[१]णुमिव द्विपेन्द्रः॥३८॥

 पौरेष्विति सोऽहम् । अपां तरंगेषु तैलबिन्दुमिव । पौरेषु बहुलीभवन्तं पूसरन्तम् । स एव पूर्वो यस्य स तम् । तत्पूर्वमवर्णमपवादम् ॥ “ अवर्णाक्षेपनिर्वादपरीवादापवादवत् इत्यमरः ॥ द्विपेन्द्रः । आलानमेवालानिकम् ॥ विनयादित्वात्स्वार्थे ठक् ॥ अथवालानं बन्धनं प्रयोजनमस्येत्यालानिकम् ॥ “प्रयोजनम्" इति ठक् ॥ स्थाणुं स्तम्भमिव ॥ चूतवृक्ष इतिवत्सामान्यविशेषभावादपौनरुक्त्यं द्रष्टव्यम् ॥ सोढुं नेशे न शक्नोमि ॥

  तस्यापनोदाय फलप्रवृत्तावुपस्थितायामपि निर्व्यपेक्षः ।
  त्यक्ष्यामि वैदेहसुतां पुरस्तात्समुद्रनेमिं पितुराज्ञयेव ॥ ३९॥

 तस्येति तस्यावर्णस्यापनोदाय फलप्रवृत्तावपत्योत्पत्तावुपस्थितायां सत्यामपि निर्व्यपेक्षो निःस्पृहः सन् । वैदेहसुताम् । पुरस्तात्पूर्वं पितुराज्ञया समुद्रनेमिम् । समुद्रो नेमिरिव नेमिर्यस्याः सा भूमिः । तामिव । त्यक्ष्यामि ॥ ननु सर्वथा साध्वी न त्याज्येत्यत्राह-

  अवैमि चैनामनघेति किंतु लोकापवादो बलवान्मतो मे ।
  छाया हि भूमेः शशिनो म[२]लत्वेनारोपिता शुद्धिमतः प्रजाभिः ॥ ४० ॥

 अवैमीति एनां सीतामनघा साध्वीति चावैमि । किंतु मे मम लोकापवादो बलवान्मतः । कुतः । हि यस्मात्प्रजाभिर्भूमेश्छाया प्रतिबिम्बं शुद्धिमतो निर्मलस्य शशिनो मलत्वेन कलङ्कत्वेनारोपिता । अतो लोकापवाद एव बलवानित्यर्थः॥

  रक्षोवधान्तो न च मे प्रयासो व्यर्थः स वैरप्रतिमोचनाय ।
  अमर्षणः शोणितकाङ्क्षया किं पदा स्पृशन्तं दशति द्विजिह्वः ॥ ४१ ॥

..


  1. स्तम्भम्.
  2. मलत्वे निरूपिता.