रक्ष इति॥ किंच। मे रक्षोवधान्तः प्रयासो व्यर्थो न । किंतु स वैरप्रतिमोचनाय वैरशोधनाय ॥ तथाहि । अमर्षणोऽसहनो द्विजिह्वः सर्पः पदा पादेन स्पृशन्तं पुरुषं शोणितकाङ्क्षया दशति किम् । किंतु वैरनिर्यातनायेत्यर्थः॥
तदेष सर्गः करुणार्द्रचित्तैर्न मे भवद्भिः प्रतिषेधनीयः।
यद्यर्थिता नि[१]र्हृतवाच्यशल्यान्प्राणान्मया धारयितुं चिरं वः॥४२॥
तदिति ॥ तत्तस्मादेष मे सर्गो निश्चयः ॥ “सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु" इत्यमरः ॥ करुणार्द्रचित्तैर्भवद्भिर्न प्रतिषेधनीयः । निर्हृतं वाच्यमेव शल्यं येषां तान्प्राणान्मया चिरं धारयितुं धारणं कारयितुं वो युष्माकमर्थितार्थित्वमिच्छा यदि । अस्तीति शेषः ॥
इत्युक्तवन्तं जनकात्मजायां नितान्तरूक्षाभिनिवेशमीशम् ।
न कश्चन भातृषु तेषु शक्तो निषेद्धुमासीद[२]नुमोदितुं वा ॥४३॥
इतीति । इत्युक्तवन्तं जनकात्मजायां विषये नितान्तरूक्षाभिनिवेशमतिकराग्रहमीशं स्वामिनं तेषु भ्रातृषु मध्ये कश्चनापि निषेद्धुं निवारयितुमनुमोदितुं प्रवर्तयितुं वा शक्तो नासीत् । पक्षद्वयस्यापि प्रबलत्वादि प्रबलत्वादित्यर्थः ॥
स लक्ष्मणं लक्ष्मणपूर्वजन्मा विलोक्य लोकत्रयगीतकीर्तिः ।
सौम्येति चाभाष्य यथार्थभाषी स्थितं निदेशे पृथगादिदेश ॥४४॥
स इति ॥ लोकत्रयगीतकीर्तिर्यथार्थभाषी लक्ष्मणपूर्वजन्मा लक्ष्मणाग्रजः स रामो निदेशे स्थितमाज्ञाकारिणं लक्ष्मणं विलोक्य "हे सौम्य सुभग" इत्याभाष्य च पृथग्भरतशत्रुघ्नाभ्यां विनाकृत्यादिदेशाज्ञापयामास ॥
प्रजावतीति ॥ दोहदो गर्भिणीमनोरथः। तच्छंसिनी ते प्रजावती भ्रातृजाया॥ "प्रजावती भ्रातृजाया" इत्यमरः ॥ तपोवनेषु स्पृहयालुरेव सस्पृहेव ॥ "स्पृहिगृहि-" इत्यादिनालुच्प्रत्ययः ॥ स त्वं रथी सन् । तद्वयपदेशेन दोहदमिषेण नेयां नेतव्यामेनां सीतां वाल्मीकेः पदं स्थानं प्रापय्य गमयित्वा ।। “विभाषापः" इत्ययादेशः । त्यज ॥