पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२९९

पुटमेतत् सुपुष्टितम्
( २९७ )
चतुर्दशः सर्गः ।

 स इति॥ पितुर्जमदग्नेर्नियोगाच्छासनाद्भार्गवेण जामदग्न्येन । कर्त्रा ॥ “न लोक-" इत्यादिना षष्ठीप्रतिषेधः ॥ मातरि द्विषतीव द्विषद्वत् ॥ “तत्र तस्येव" इति वतिप्रत्ययः॥ प्रहृतं प्रहारं शुश्रुवाञ्श्रुतवान् ॥ “भाषायां सदवसश्रुवः इति क्वसुप्रत्ययः॥ स लक्ष्मणस्तदग्रजशासनं प्रत्यग्रहीत् । हि यस्माद्गुरूणामाज्ञाविचारणीया ॥

  अथानुकूलश्रवणप्रतीतामत्रस्नुभिर्युक्तधुरं तुरंगैः ।
  रथं सुमन्त्रप्रतिपन्नरश्मिमारोप्य वैदेहसुतां प्रतस्थे ॥ ४७॥

 अथेति ॥ अथासौ लक्ष्मणः । अनुकूलश्रवणेन प्रतीतामिष्टाकर्णनेन तुष्टां वैदेहसुतामत्रस्नुभिरभीरुभिर्गर्भिणीवहनयोग्यैः ॥ " त्रसिगृधिधृषिक्षिपेः क्रुः” इति क्रुप्रत्ययः॥ तुरंगैर्युक्तधुरं सुमन्त्रेण प्रतिपन्नरश्मिं गृहीतप्रग्रहं रथमारोप्य प्रतस्थे ॥

  सा नीयमाना रु[१]चिरान्प्रदेशान्प्रियंकरो मे प्रिय इत्यनन्दत् ।
  नाबुद्ध कल्पद्रुमतां विहाय जातं तमात्मन्यसिपत्रवृक्षम् ।। ४८॥

 सेति ॥ सा सीता रुचिरान्प्रदेशान्नीयमाना प्राप्यमाणा सती मे मम प्रियः प्रियं करोतीति प्रियंकरः प्रियकारीत्यनन्दत् ॥ "क्षेमप्रियमद्रेऽण्च" इति चकारात्खच्प्रत्ययः ॥ तं प्रियमात्मनि विषये कल्पद्रुमतां विहायासिपत्रवृक्षं जातं नाबुद्ध नाज्ञासीत् ॥ बुध्यतेर्लुङ् ॥ असिपत्रः खड्गाकारदलः कोऽप्यपूर्वो वृक्षविशेषः ॥ “ असिपत्रो भवेत्कोषाकारे च नरकान्तरे" इति विश्वः ॥ आसन्नधातुक इति भावः॥

  जु[२]गूह तस्याः पथि लक्ष्मणो यत्सव्येतरेण स्फुरता तदक्ष्णा ।
  आख्यातमस्यै गुरु भावि दुःखमत्यन्तलुप्तप्रि[३]यदर्शनेन ॥ ४९ ॥

 जुगूहेति ॥ पथि लक्ष्मणो यद्दुःखं तस्याः सीताया जुगूह प्रतिसंहृतवांस्तद्गुरु भावि भविष्यदुःखमत्यन्तलुप्तं प्रियदर्शनं यस्य तेन स्फुरता सव्येतरेण दक्षिणेनाक्ष्णास्यै सीताया आख्यातम् ॥स्त्रीणां दक्षिणाक्षिस्फुरणं दुर्निमित्तमाहुः ॥

  सा दुर्निमित्तो[४]पगताद्विषादात्सद्यः परिम्लानमु[५]खारविन्दा।
  राज्ञः शिवं सावरजस्य भूयादित्याशशंसे करणैरवायैः॥ ५० ॥

 सेति ॥ सा सीता दुर्निमित्तेन दक्षिणाक्षिस्फुरणरूपेणोपगतात्मा प्राप्ताद्विषादादुःखात्सद्यः परिम्लानमुखारविन्दा सती सावरजस्य सानुजस्य राज्ञो राम शि-


  1. रुचिरप्रदेशान्.
  2. जुगोप.
  3. प्रियचुम्बनेन; प्रियवन्दनेन.
  4. उपगमात्.
  5. मुखारविन्दम्.